Book Title: Sutra Rahasyam
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 28
________________ उत्तरंः अर्थात् केवलं रागादिरुपो मनोदोषोऽस्ति, न तु वाचिकः कायिको वा, तत्रापि अवश्यमालोचना करणीयैव। यस्मात्तत्र कर्मबन्धो भवत्येव, तत्क्षयार्थं च आलोचनैव प्रायश्चित्तम्। प्रश्नः द्वयोः साधोः संज्वलनोदयः समानः, परन्तु एकेन स्थापनादिरुपो बाह्यदोषः सेवितः, एकेन तु न। तत्र किं द्वयोः कर्मबन्धः समानो न वा ? । उत्तरंः यदि द्वयोः सर्वथा समान एव संज्वलनोदयः, तर्हि द्वयोः कर्मबन्धः समान एव। यथाहि पंचेन्द्रियवधादिबाह्यदोषसहितस्य तीव्ररोद्रध्यानवतः सप्तमीनरकायुर्बन्धो भवति, तथैव तादृशबाह्यदोषरहितस्यापि तीव्ररौद्रध्यानवतः तन्दुलमत्स्यादेः सप्तमीनरकायुर्बन्धो भवत्येव। प्रश्नः तर्हि किं द्वयोः प्रायश्चितं समानमेव? न वा? उत्तरः प्रायश्चितं तु विषमं भवति। बाह्यदोषरहितस्य संज्वलनोदयवत आलोचनैव प्रायश्चित्तं, स्थापनादिबाह्यदोषसहितस्य संज्वलनोदयवत आलोचना, यथोचितं तपःप्रभृतिकं च प्रायश्चित्तम्। प्रश्नः यदि द्वयोः कर्मबन्धः समानः, तर्हि एकस्य कर्म आलोचनामात्रेण कथं विनाशमाप्नुयात् ? यस्माद् द्वितीयस्य तु कर्म आलोचनया तपसा च विनाशमाप्नोति।। उत्तरंः यथा कर्मबन्धे भाव एव कारणं, तथैव कर्मक्षयेऽपि भाव एव कारणम्। आलोचनातपःप्रभृतिकं तु तत्र गौणम्। तद्धि व्यवहारत एव कारणमुच्यते। तथा च 'जिनाज्ञया गुर्वाज्ञया चालोचना मया कर्तव्या, येन मम कर्मक्षयः

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72