Book Title: Sutra Rahasyam
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
तपःप्रायश्यित्तं गीतार्थगुरुः दद्यात्।
एवं चायमत्र सारः, अपवादमार्गे तपःप्रायश्चित्तं न भवति, संज्वलनोदयाभावात्। बाह्यदोषरहितस्य संज्वलनोदयमात्ररुपस्य मनोदोषस्याऽपि तपःप्रायश्चित्तं न भवति, तपःप्रायश्चित्तकरणस्याशक्यत्वात्। उभयत्रालोचना तु अस्त्येव, तथोभयत्र गीतार्थगुरुः कारणवशात् तपःप्रायश्चित्तमपि दद्यादिति ।
प्रश्नः संज्वलनोदयस्तु दशमगुणस्थानं यावद् भवत्येव, तर्हि किं दशमगुणस्थानं यावद् अतिचारो भवति?
उत्तरंः न भवति। यदि भवेत्, तर्हि प्रतिसमयं संज्वलनोदयस्य सद्भावात् प्रतिसमयं अतिचारो भवेत्। तथा च दशमगुणस्थानं यावत् सर्वेऽपि साधवः सातिचारा एव भवेयुः, न तु निरतिचाराः। एवं च सति तीर्थकरा अपि छद्मस्थकाले साधुदशायां सातिचारा एव मन्तव्या भवेयुः, न चैतदुचितम्।
प्रश्नः तर्हि संज्वलनोदयादतिचारो भवति' इति अस्य किं रहस्यम् ? शास्त्रपाठस्तु अयमेव यदुत सव्वे वि य अइयारा संजलणाणं उदयओ हुँति' इति। अस्यायमर्थो यदुत सर्वेऽपि चातिचाराः संज्वलनानामुदयाद् भवन्ति।
उत्तरः संज्वलनानामेवोदयाद् अतिचारा भवन्ति' इति सत्यम्। परन्तु 'संज्वलनाना उदयाद् अतिचारा भवन्त्येव' इति तु न मन्तव्यम्।।
सामान्यरागद्वेषजनकात् संज्वलनोदयाद् अतिचारा न भवन्ति, विशिष्टरागद्वेषजनकात् संज्वलनोदयाद् अतिचारा भवन्ति।

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72