Book Title: Sutra Rahasyam
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 35
________________ चारित्रस्य मलिनतायाः कारणीभूतोऽतिचारोऽतिचार एव, चारित्रस्य विनाशस्य कारणीभूतो ऽतिचारोऽनाचार इति । ततश्च गाथोक्तेन ‘अतिचार'पदेन अतिचारानाचारौ द्वौ अपि गृह्यते । प्रश्नः आलोचनायाः किं फलम् ? उत्तर : अतिचारात्मकस्यातिचारस्यालोचनया मलिनं चारित्रं पुनः निर्मलं भवति, अनाचारात्मकस्यातिचारस्यालोचनया तु विनष्टं चारित्रं पुनरुज्जीवतीति फलमिति दिक्। अधिकं तु संविग्नगीतार्थगुरुसमर्पणेन ज्ञातव्यम्। ॥ अतिचारगाथाविवरणं सम्पूर्णम् ।। यदीयसम्यकत्वबलात्प्रतीमो, भवादृशानां परमस्वभावम् । कुवासनापाशविनाशनाय, नमोऽस्तु तस्मै तव शासनाय ।। ॥ नमोऽस्तु तस्मै जिनशासनाय ॥

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72