Book Title: Sutra Rahasyam
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
एव अनुज्ञातो भगवता । ततश्च तदधिकोपकरणस्योपयोगो यदि क्रियते, तर्हि दोषः स्यात् ।
प्रश्नः कानि तानि उपकरणानि येषामुपयोगे दोषो गण्यते ?
उत्तरः 'पाट' इतिनामकं काष्ठोपकरणं, कोमलस्पर्शार्थं शीतरक्षार्थं वा 'धाबडो' इतिनामकमुपकरणं, क्षुद्रजन्तूपद्रवनिवारणार्थं, 'मच्छरदानी' इतिनामकमुपकरणं, क्षुद्रजन्तुनिवारणार्थं 'नारंगीतेलप्रभृतिनामको लेपविशेषः....' इत्यादीनि यदि व्याप्रियन्ते, तर्हि प्रकृतो दोषो भवेत् ।
प्रश्नः कोमलस्पर्शादिकरणार्थं अधिकोपकरणोपयोगेऽवश्यं दोषः, परन्तु शीतादिनिवारणार्थं अधिकोपकरणोपयोगे को दोषः ? अपवादो हि मार्गः, न तु दोषः ।
उत्तरः सत्यम्। यथा सहनशक्तौ सत्यां बुभुक्षायां सत्यामपि भोजनाकरणं, सहनशक्ती असत्यां तु निर्दोषभोजनकरणं, एतौ द्वौ अपि पदार्थों बुभुक्षाविजयो गण्येते, एवं शीतसहनशक्तौ सत्यां अधिकोपकरणं वर्ज्यमेव, असत्यां तु कम्बलादिवस्त्रोपयोगकरणेऽपि न दोषः, अपि तु परिषहजय एव । कम्बलादीनि शीतरक्षार्थं भगवतोक्तान्येव ।
'धाबडो' इत्याद्युपकरणं तु गृहस्थसम्बन्धि भवेत्, तस्मात्तदुपयोगे परिषहजयो न गण्यते, परन्तु शीताधिकतायां सहनशीलताऽल्पतायां च तदुपयोगोऽपवादो गण्यते ।
एवं क्षुद्रजन्तूपद्रवे सति यदि सहनशक्तिर्भवेत्, तर्हि सोढव्यमेव यदि तु न सह्येत, तर्हि 'मच्छरदानी'

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72