Book Title: Sutra Rahasyam
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
प्रश्नः शास्त्रे तु अतिक्रमो व्यतिक्रमोऽतिचारोऽनाचारश्चेति चत्वारो भेदा दृश्यन्ते । अत्र गाथायान्तु अतिचार एव किमर्थं गृहीतः ?
उत्तरः अत्र द्वे विवक्षे स्तः, अतिक्रमादीनां चतुर्णां भेदानां निरुपणमेका विवक्षा, अतिचारानाचारयोः द्वयोर्निरुपणं द्वितीया विवक्षा ।
तत्र प्रथमविवक्षायां 'केन प्रकारेण दोषा वर्धन्ते ?' इति प्रतिपाद्यते । द्वितीयविवक्षायान्तु 'साधुता विद्यते न वा ? ' इति निर्णयप्रतिपादनम्।
तथाहि-केनचिद् गृहस्थेनाधाकर्मनिमन्त्रणं कृतम् । तच्च साधुना स्वीकृतमिति अयं अतिक्रमः । तदनु आधाकर्मग्रहणाय पात्रकादिग्रहणं, गमनं, आधाकर्मग्रहणोत्सुक्तेति च व्यतिक्रमः । तदनु पात्र ग्रहणं, उपाश्रये प्रत्यागमनं, आधाकर्मभक्षणायोपवेशनमित्यादि चातिचारः । तदनु आधाकर्मभक्षणमनाचार इति ।
अत्र 'दोषवृद्धिः केन प्रकारेण भवति ?' इति स्पष्टं ज्ञायते । अत्र च विवक्षायां अतिक्रमव्यतिक्रमातिचारेषु न प्रायश्चित्तं, अनाचार एव च प्रायश्चित्तम् ।
यथा ऽऽधाकर्मात्मके उत्तरगुणेऽतिक्रमादिचतुष्कं प्रतिपादितं, तथैव हिंसादिषु मूलगुणेष्वपि तत्प्रतिपादनीयम्। शीतापनोदाय वह्निकरणशिक्षा केनचित्प्रदत्ता, तत्र च तथा करिष्यामि इति स्वीकृतं, अयं चातिक्रमः । तदर्थं काष्ठाद्यानयनस्य गमनं व्यतिक्रमः । काष्ठाद्यानीयैकत्र स्थापनं अतिचारः । काष्ठादिज्वालनमनाचारः ।

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72