Book Title: Sutra Rahasyam
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 30
________________ यावत्प्रायश्चित्तं वोढुमशक्यमेव, ततश्चाशक्यं तन्न दीयेत। किन्तु बाह्यदोषोऽनेकशो भवन्निरोधुं शक्य एव, ततश्च यदि तस्य तपःप्रायश्चित्तं न दीयेत, तर्हि अनेकशो भवन्तं निरोधुं शक्यमपि बाह्यदोषं स प्रमादनिष्ठुरतादिपरवशो भूत्वा न सिन्ध्यात्। यदि तु तपः प्रायश्चित्तं दीयेत, तर्हि स वोढुं शक्यं तत्प्रायश्चित्तं कुर्यात्, तत्करणे च निष्ठुरतादिदोषप्राप्त्यभावात् स अनेकशो भवन्तं निरोधुं शक्यं बाह्यदोषं निरुन्ध्यादेवेति। तस्मात् तपःप्रायश्चित्तदान एष भेदः कृत इति। प्रश्नः बाह्यदोषरहितस्य संज्वलनोदयवतः तपःप्रायश्चित्तं नैव दीयत इति किं एकान्तोऽस्ति? उत्तरं : एकान्तो नास्ति। गीतार्थगुरुः शिष्यस्य भूमिका परीक्ष्य कदाचित् संज्वलनोदयमात्रेऽपि तपःप्रायश्चित्तं प्रयच्छति। तत्र कारणानि त्विमानि। 1. यदि मन्दवैराग्यवान् शिष्यो भवेत्, तर्हि तपोऽभावे बाह्यदोषानपि सेवितुमारभे, तन्निवारणार्थ गीतार्थगुरुः तपो दद्यात्। ___ 2. यदि अधिकवैराग्यवत अगीतार्थस्य शिष्यस्य आलोचनामात्रेण सन्तोषो न भवेत्, तर्हि गुरुः तत्सन्तोषार्थमपि तपो दद्यात्। 3.यदि अन्येऽपि साधवस्तस्य शिष्यस्य संज्वलनोदयमानं जानन्ति, तर्हि तस्यालोचनामात्रस्य प्रायश्चित्तस्य दाने संज्वलनोदयस्य भयं अन्यसाधुभ्योऽपगच्छेत्, ततश्च ते निष्ठुरा भवेयुः। तन्निवारणार्थं संज्वलनोदयमात्रस्यापि

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72