Book Title: Sutra Rahasyam
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
* साधुना उच्चारभूमिगमनमार्गः पृष्टः, किन्तु मम मौनमस्ति' इति विचिन्त्य उत्तरं न दत्तम्।
* ग्लानादीनां औषध्यानयनादिकं अत्यावश्यकं कार्यं समापतितं, तच्च शीघ्रं करणीयं, किन्तु नामस्तवशतकायोत्सर्गात्मकं कायनिरोधं कृत्वा तत्कार्यं न कृतम्।
एवमादयो बहवोऽतिचारा गुप्तिविषये सम्भवन्ति। एवं तावदेषा 'सयणासणन्न' गाथा संक्षेपतो व्याख्याता। प्रश्नः ‘अतिचारः' शब्दस्य कोऽर्थः? । उत्तरः संज्वलनकषायोदयाद् विपरीतं वर्तनमतिचारः।
अत्र संज्वलनोदयो निश्चयतोऽतिचारः, विपरीतं वर्तनं व्यवहारतोऽतिचारः। यदा केवलं संज्वलनोदयो भवति, किन्तु विपरीतमाचरणं न भवति, तदाऽतिचारस्य व्यवहारो न क्रियते, यदुत अनेनातिचारः सेवित' इति। यदा तुग्लान्यादिकारणवशात् स्थापनादिदोषदुष्टभिक्षारुपं विपरीतमाचरणं भवति, संज्वलनोदयश्च न भवति, तदा यद्यपि तत्र अतिचारस्य व्यवहारः क्रियते यदुत अनेनातिचारः सेवितः, स्थापनादोषः सेवित' इति, परन्तु स व्यवहारः पारमार्थिको न गण्यते। यस्मान्निश्चययुक्त एव व्यवहारः शुद्धव्यवहारः, निश्चयरहितस्त, व्यवहारोऽशद्धव्यवहारः। यदा तु प्रमादस्य जनकः संज्वलनोदयोऽप्यस्ति, तेन कारणेन स्थापनादिदोषसेवनमप्यस्ति, तदा योऽतिचारस्य

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72