Book Title: Sutra Rahasyam
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 22
________________ आसां स्वरूपमुत्तराध्ययनयोगशास्त्रप्रभृतिग्रन्थेभ्योऽवसेयम् । तथाऽपि संक्षेपेणात्र तासां स्वरुपं प्रतिपाद्यते । - रविप्रकाशयुक्ते मार्गेऽधो दृष्ट्वा गमनमिर्यासमितिः । - प्रियं हितकारि सत्यं च वचनं भाषासमितिः । - द्विचत्वारिंशद् दोषरहिता भिक्षा एषणासमितिः । कस्यापि वस्तुन: चक्षुषा प्रतिलेख्य रजोहरणादिना प्रमार्ण्य च ग्रहणं मोचनं च आदानभाण्डमात्रकनिक्षेपणासमितिः । - कायिकोच्चारादीनामशुचीनां निर्दोषभूमौ परित्यजनं पारिष्ठापनिकासमितिः। - अस्यां समितौ अनेन प्रकारेण बहवो दोषाः सम्भवन्ति । * रविप्रकाशात्पूर्वं विहारः कृतः । * दिवसेऽपि उपाश्रये तमोयुक्ते तथाविधे स्थाने दंडासनेन प्रमार्जनमकृत्वैव गमनादिकं कृतम्। * रात्रौ दंडासनस्योपयोगमकृत्वैव अविधिना वोपयोगं कृत्वा गमनादिकं कृतम्। * विहारे परस्परं आलापसंलापविकथादयो दोषाः सेविताः ।

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72