Book Title: Sutra Rahasyam
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
प्रावृत्यापि तत्र भक्ति।चिता' इति तु मुग्धतावशान्न स्मृतम्।
* सूर्यास्तमनानन्तरं चैत्ये गमनं कृतम्।
* प्रतिमाप्रक्षालजलं भक्तिभावेन संगृहीतं, शिरसि चक्षुषि च धारितम्। एतादृशो द्रव्यस्तवः श्रमणानां नोचित' इति सम्यग्ज्ञानं न प्राप्तम्। प्राप्याऽपि च तदुपयोगो न कृतः।
* संयमयात्रामुपेक्ष्य शजयशंखेश्वरगिरनारादितीर्थयात्रा कृता। अयं भावः, 'डोली- व्हीलचेअर' आदिनामकेन वाहनविशेषेण विहारं कृत्वा यात्रा कृता, विहारे च भिक्षादोषाः सेविताः, स्वाध्यायादिव्याघातश्च संजातः, उपध्यादिवाहकेन गृहस्थेन सह विहारकरणे महानसंयमः संजातः, असंयमसेवनेन श्रीचन्द्रप्रभस्वामितीर्थयात्रा कर्तृणां, अत एव दीर्घसंसारगामिनां महानिशीथोक्तानां एकोनपंचाशत-साधूनां दृष्टान्तो न स्मृतः। एतादृग्यात्रायां सेव्यमानानां दोषाणां पश्चात्तापो न संजातः, निष्ठुरतावशात्संयमपक्षपातोऽपि अपगतः। सम्यग्मार्गदर्शकानां तु निन्दा कृता यदुत 'तीर्थयात्रानिषेधकारिण एते स्थानकवासिसदृशा' इति। परन्तु तन्निषेधस्य तात्पर्य न ज्ञातम्। न हि यात्रानिषेधे तात्पर्यं, किन्तु यात्रायां यदि असंयमः सम्भवेत्, तर्हि तस्यैव निषेधे तात्पर्यम्' इति न ज्ञातम्।
* प्रतिमास्पर्शः कृतः। * उपयोगं विनैव चैत्यवन्दनं कृतम्।

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72