Book Title: Sutra Rahasyam
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
* सूत्रोच्चारो न शुद्धः कृतः, चैत्यवन्दने योगमुद्रादिविधिः सम्यग् न पालितः। *चैत्यवन्दनकाले प्रतिमां विनाऽन्यवस्तुनिरीक्षणे दृष्टिः पातिता। * नूतनतीर्थनिर्माणं कृतं, तदर्थं च धनराशिर्याचितः। * कस्मिंश्चिदपि तीर्थे चैत्यवासिसदृशं स्वाधिपत्यं स्थापितम्। * श्रावकेभ्यः 'स्वद्रव्येणैव जिनपूजा कार्या, अविधिश्च परिहर्तव्य' इत्यादिरुप उत्सर्गमार्गो नोपदिष्टः। * मन्दीरप्रतिमानां सुरक्षा न कारिता।
एवमादयो बहवोऽतिचाराश्चैत्यविषये सम्भवन्ति। (6) षष्ठः पदार्थोः 'यतिः' अस्ति।
यति म जैनमुनिः, अस्मिन्विषयेऽनेन प्रकारेण दोषाः सम्भवन्ति। * अन्धकारे जाते सति साधूनां वन्दनं कृतम्। यदि वा न कृतमेव। * कस्यचित्साधोः प्रशंसां श्रुत्वा मनसि दाहः संजातः। * साधौ विद्यमाना अपि दोषा अन्यस्याग्रे प्रकटीकृताः, निन्दाकृता इति भावः।
* गच्छान्तरीयसाधूनामुन्नतिं दृष्ट्वा मात्सर्यं कृतं, तदुन्नतिनिरोधाय विचारः प्रयासश्च कृतः। अत एव तेषामसन्तोऽपि दोषाः कुतर्केण समुद्भाविताः।

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72