Book Title: Sutra Rahasyam
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
* लघुसाधुना प्रमादाऽनाभोगवशात् काचित् क्षतिः कृता, तां दृष्ट्वा तदुपरि क्रोधः कृतः, तदपमानं च कृतम्। * रत्नाधिकस्याल्पज्ञानादिकं दृष्ट्वा तं प्रति मनसि उपेक्षाभावस्तिरस्कारभावश्च समुत्पादितः।
* प्रतिलेखन-वस्त्रप्रक्षालन-गोचरीपानकादीनिवैयावृत्त्यकार्याणि न कृतानि, अविधिना वा कृतानि, अन्येभ्यो वा प्रदत्तानि, स्वकर्तव्यं न पालितं, ग्लानवृद्धबालनूतनदीक्षितादीनां कार्येषु उपेक्षा कृता।
* वैरभाववशेन साधुना सहालापसंलापादिकं त्यक्तम्। * साधुना कस्मिंश्चित्प्रश्ने कृते सति सम्यक्समाधानं न दत्तम्। एवमादयो बहवो दोषा यतिविषये सम्भवन्ति। अत्र यति' पदेन साध्व्यपि सूचिताऽवगन्तव्या, तद्विषयेऽनेन प्रकारेण दोषाः सम्भवन्ति। * गुर्वनुज्ञामगृहीत्वैव साध्व्या सह वार्तालापः कृतः। * सूर्योदयात्प्राक् सूर्यास्तमनानन्तरं चसाध्व्या उपाश्रयप्रवेशो न निवारितः, प्रत्युत अनुमतिः प्रदत्ता। * साध्वी प्रति अनुचितभावना भाविता। * साध्वीं तुच्छस्वभावां मत्वाऽवज्ञा कृता।

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72