Book Title: Sutra Rahasyam
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 13
________________ * कुत्रचित्स्थाने नमस्कारसहितायां संखड्यां इष्टमन्नं ज्ञात्वा एकाशनकं विहाय द्वयशनकं कृतम्। एवं सायंकालसंखड्यां इष्टमन्नं ज्ञात्वा तत्कालेऽन्नं भक्षितम्। तदर्थं च एकाशनकं त्यक्तम्। तदर्थं च ग्लान्यादिरुपं किमपि कपटं कृतम्। * गोचरीचर्या न कृता। उपाश्रय एव गृहस्थैः आनीतमन्नं गृहीतम्। * आसक्तिपरवशताकारणाद् भक्ष्याभक्ष्यविवेकः सचित्ताचित्तविवेकः स्वगच्छसामाचारीविवेकश्च न कृतः। अर्थाद् अभक्ष्यमपि सचित्तमपि स्वगच्छसामाचारीविपरीतमपि च गृहीतं भक्षितं च। ____ अधुना तु 'बुंदीलाडु, चुरमालाडु' इत्यादिपदार्थाः प्रायोऽभक्ष्या एव भवन्ति। एवं उपधान-संघ-तपश्चर्या प्रभृतिप्रसंगेषु या संखडि भवति, तस्यां यदि रात्रौ एव भोजनं पच्यते, तदा भृशमयतनासद्भावात्तत्र गोचरीग्रहणमनुचितमेवेति। एवं दिवससमये पाककरणेऽपि अधुना प्रायः कर्मकरा एव संखड्यां पाकं कुर्वन्ति, ते च प्रायो यतनाज्ञानरहिताः, अथवा यतनाज्ञानसत्त्वेऽपि वेतनमात्रासक्ता यतनां नैव कुर्वन्तीति तत्राऽपि प्रभूतायतनासद्भावाद् गोचरीग्रहणमनुचितमेवेति। एवमादयो बहवोऽतिचारा अन्नविषये सम्भवन्ति। 4) चतुर्थः पदार्थः ‘पानं' अस्ति।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72