Book Title: Sutra Rahasyam
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 10
________________ * 'शयनं सोत्तरपट्टकं कृत्वैव भूमौ आस्तरणीयं इति विधिः, परन्तु प्रथमं शयनं आस्तीर्य पश्चात्तदुपरि उत्तरपट्टकोऽऽस्तृतः। * उत्तरपट्टकं अनास्तीर्यैव शयने शयनं कृतम् । * दिवसकाले शयनं समास्तृतं, तत्र च शयनं कृतम् । * रात्रौ उचितसमये 'संथारा पोरिसी' विधिं कृत्वैव शयनमास्तरणीयं, परन्तु तमकृत्वैव शयनमास्तृतम्। यदि वोचितसमयात्प्राक्पश्चाद् वा शयनमास्तृतम्। * शास्त्रोक्तप्रमाणादधिकमूनं वा शयनं रक्षितम् (धृतम् ) । * अन्यसाधोः शयनं गृहीतं, तस्य चोपयोगः कृतः । * रत्नाधिकस्य अन्यस्य वा शयने पादादिस्पर्शोऽभवत् । * एवमादयो बहवोऽतिचाराः शयनविषये स्वयमपि विचारणीयाः । * 'शयनं नाम स्वापोपयोगी संस्तारकनामक उपकरणविशेष' इति न विस्मरणीयम् । (2) द्वितीयः पदार्थः 'आसन' मस्ति । आसनं नाम उपवेशनोपयोगी काष्ठोर्णादिमय उपकरणविशेषः । तस्मिन्विषयेऽनेन प्रकारेण वितथमाचरणं संभवति ।

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72