Book Title: Supasnahachariyam Part 03
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 15
________________ प्रसिद्धिमपश्यता कुमारपालचरित (प्राकृतद्धयाश्रय ) टीकायां प्रक्रमागतस्यापि तस्य स्थाने देश्यस्येव मर्यादापर्यायेणैव व्याख्यानमालोकयताऽत्रापि तद्भवत्वपक्षमुपेक्ष्य देश्यत्व मेवोररीकृतम् (घ) मुत्कलप्रमुखाणां तु संस्कृतसाहित्येऽप्युक्तवत् क्वचिद् व्यवहारदर्शनात्, प्रसिद्धयभावाचोभय मपि तद्भवत्वं देश्यत्वं च-स्थानभेदेनाङ्गीकृतम् । (ङ) 'अमह' आदीनां त्वर्थभेदेन तद्भवत्वं देश्यत्वं च, इति तेषां प्रकरणसंगत्या क्वचित् किश्चि दिन्युभयमप्यविरुद्धतयाञाश्रितम् । ६ (क) देश्यशब्दानां चैकेनैव देशीनाममालादिप्रतिपादितेन केनचिच्छब्देन च्छायानुवादवि धाने न किश्चिद् निवन्धनमाकलयामः, किन्तु तदर्थकेनान्येनापि शब्देन तत्करणं नानुचितम् । वर्णसादृश्यानुबन्धस्य तद्भवप्राकृतविषयत्वात् । अत एव प्राच्यग्रन्थेषु 'धणि प्रमुखदेश्यशब्दानां बहु-गाढ-बाढादिशब्देनेवात्रापि 'पञ्चोणी' आदिदेश्यानां समानार्थकेनापि भिन्नभिन्नशब्देनानुवादो विहितः, समानार्थेष्वपि शब्देषु प्रकरणानुरोधेन क्वचित् कस्यचित् सौन्दर्यावहत्वात् । अत एव 'हु' 'चिय' आयव्ययानामपि व्याकरणेषु तद्भवप्राकृतत्वेनाधिकृतानामपि वस्तुतो देश्यप्रपञ्चान्तर्गतानां भिन्नभिन्नैः 'हि' 'एव' 'अपि' 'खलु' प्रभृतिभिः शब्दरत्रानुवादः कृतः। (ख) येषां तु पोट्ट-मेहरी-भुरुंडियादिशब्दानां देशीनाममालाप्रतिपादितानां क्रमश उदर-ग्राम प्रवरा-शिवाद्यर्थानां प्रकरणार्थेनासंगतिः, तेषामनुवादे देशीनाममालोक्तमर्थमगृहीत्वा प्रकरणसंगत्योद्यमान एवार्थः समुपात्तः, प्रकरणासंबद्धवचनानामनुपादेयत्वात् । अत एव तद्भवप्राकृतानां 'गैड' आदिशब्दानामपि गर्ताद्यननुवादेन शकटाद्यर्थग्रहणमिह विहितम् । प्रकृतग्रन्थेपभ्रंशातिरिक्तेषु प्राकृतपद्येष्वपि वहवस्तादृशाः शब्दा दृष्टिपथमवतरन्ति, येषां शुद्धेन तद्भवप्राकृतत्वेन देश्यत्वेन वा व्यपदेशो दुःशकः कर्तुम् , व्याकरणनियमाननुपातित्वात्, देशीकोषे चानुपलम्भात् ; अथ च शुद्धैस्तद्भवप्राकृतैर्देश्यैर्वा शब्दैः सह वर्णसादृश्यानुवन्धं प्रकरणसंगतार्थसमानतां च पश्यस्तेषामपभ्रष्टरूपतामनुममानस्तत्तत्माकृत-देश्यशब्दार्थानुसारेण प्रागुक्तशैल्या छायामकार्षम् । कतिपयानि तादृश्यत्रोदाहरणानि;-- १ तद्भवत्वे अणहं = अनघम्,देश्यत्वे अणहं = अक्षतम् ( दे० ना० १, १३ ) एवं तद्भवत्वे तत्ती तृप्तिः, देश्यत्वे तत्ती = तत्परता, आदेशश्च (दे० ना० ५, २० )। २ चतुर्थपृष्ठस्यैकादशाङ्का टिप्पनी द्रष्टव्या । ३ अनुक्रमं ६, ६० । ६, १२१ । ६, १०१ । ४ हे० प्रा० २, ३६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 220