Book Title: Supasnahachariyam Part 03
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 14
________________ AN (ग) यत्र तु वर्णसादृश्यानुबन्धः प्रकृत्यादेशयोः, तत्र 'जंप-णोल्ल' प्रभृतौ वररुचिमोक्ताया 'जल्प-णोद' प्रमुखाया एव प्रकृतेर्ग्रहणम्, न तु हेमचन्द्रप्रदिपादितायाः ‘कथ-क्षिप' ___ आदिरूपायाः, अत्यन्तं विवादशवर्णत्वात्, अर्थविशेषस्य चानुपलम्भात् । (घ) 'निसुअ' प्रभृतीनां तु 'श्रुत' आद्यनुवादविधानेन देशीनाममालोक्तं देश्यत्वमेवात्राङ्गी कृतम्, निश्रुतादिरूपाणां वर्णसादृश्यानुवन्धेऽपि संस्कृते रूठ्या प्रसिद्धयभावात्, देश्यत्वेऽपि चैतेषां क्रियावाचितया 'निझुणिज्जत' आदिरूपाणामपि सिद्धौ न किञ्चिद् बाधकम् । देश्य-समसंस्कृत-तद्भवत्वेन त्रिधा विभक्तस्यापि प्राकृतस्य मिथो विलक्षणतया संजातस्य संमिश्रणस्य विवेको न केवलं दुःशकः, अशक्य एक, तत्रापि विदुषां प्रचुरमतभेदस्य देशीनाममालादिषु प्रतिपदमुपलम्भात् । विस्तरेण तवर्णनानुरूपस्य स्थानस्यात्राभावेन प्रकृतग्रन्थोपात्तानामेव कियतां शब्दानां विषये दिङमात्रदर्शनपर उल्लेखोत्र क्रियते; पन्नशब्दः यत्र देश्यत्वप्रतिपादनम् यत्र समसंस्कृ तद्भवत्वं वा कङ्केल्लि देशीनाममालायां १, १२ अमरकोषे, अभिधानचिन्तामणौ च चंग मेदिनीकोषे, शब्दकल्पद्रुमे च कोसलिम अभिधानचिन्ता० (कौशलिक) चउक्क देशीनाम० ३,१२ वृत्तौ (चतुष्क) मरा हे० प्रा० १,८७ (मिरा) सुक्कल ६, १४७ दोधकवृत्तौ पृ० १६ ( मुत्कल ) उव्वरिअ , १, १३२ प्राकृतपिङ्गले १० काव्ये (उर्वरित) (क) एवं च कथेल्यादिशब्दानां संस्कृतत्वेनापि प्रसिद्धया वर्णसादृश्यानुबन्धं निवन्धनीकृत्य छायायामिह समसंस्कृतत्वपक्ष आदृतः । (ख) कौशलिकाप्रभृतिशब्दानामपि संस्कृतसाहित्ये भूयो विलोकनेन 'कोसलिअ' आदीनां तद्भ वत्वसिद्धया सादृश्यानुवन्धं च गुणमपेक्ष्य तद्भवत्वपक्षोत्र च्छायायामङ्गीकृतः । (ग) मेराशब्दस्य तु मिराशब्दाद् व्याकरणेन तद्भवत्वसिद्धावपि मिराशब्दस्य संस्कृतसाहित्ये सादृश्यादिरहितानां शब्दरूपाणां देश्यत्वमेव, व्याकरणकाराणां तद्भवप्राकृतत्वेन तेषां निर्देशोऽभ्याससौकर्यापैव केवलमित्युत्पश्यामः । प्राच्यग्रन्थपूपलभ्यमानानि कतिचिद् वाक्यानि सूक्ष्मतया मिथःपर्यालोच्यमानान्यस्यैवाभिप्रायस्य समर्थकानि विभाव्यन्ते, हे० प्रा० ४,२ वृत्तिः, देशीनाम० १,६९; ६,२४ वृत्ती च द्रष्टव्याः । १ प्रा०प्र० ८,२५,८,७।२ हे० प्रा० ४,२,४,१४३।३ दे० ना० ४,२७ ४ दे० ना० ६,२४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 220