Book Title: Supasnahachariyam Part 03
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
पक्षे तदर्थासंगतेः; केवलमुपमेयपक्षीयं रूपं मुख्यतः, उपमानपक्षीयं तु रूपं, भिन्नवर्णो रूपांशो वा गौणतया ( ) एवंभूते कोष्टके स्थापितः, यथा 'सावय' शब्दस्य ( पृ० ३४८) श्रावक-श्वापदात्मकस्य रूपद्वयस्य मध्य उपमेयपक्षीयं श्रावकरूपं प्रथममुपादाय, उपमानभूतारण्यपक्षीयं श्वापदरूपं कोष्टके गृहीतम् ; यथा च 'सयण' शब्दस्य (पृ० ३६९) सदन-शयनरूपरूपद्वितयस्य मध्ये पुरपक्षीयं सदनं मुख्यतः, उपमानभूतजलधिजलपक्षीय
शयनस्य भिन्नवर्णोशः 'शय' इति कोष्ठके, एवमन्यत्रापि सर्वत्र । (ग) यत्र पुनः श्लेषेऽपि पर्याप्ताद् रूपद्वयादधिकस्यापि रूपस्य प्रकरणसंगतस्य संभवः, तत्राधि
कस्य प्रागुक्तवदनावश्यकतयाऽनुपादानम्, यथा 'सप्पायारं' (पृ० ३४८) इत्यादौ सप्राकार-साधारात्मकस्य रूपद्वयस्यैव पक्षद्वयेऽपि पर्याप्ततयाऽधिकस्य 'सपीगार'
इत्यस्योपमानभूतारण्यपक्षे संभवत्संगतिकस्याप्यग्रहणम् । (घ) यत्र तु श्लेषे पक्षद्वयेऽप्येकेनैव शब्दरूपेणैकार्थकेन भिन्नार्थकेन वा निर्वाहः, तत्रैकस्माद
धिकं संभवदपि प्रकरणसंगतिमदपि नोपात्तम्, यथा 'वररयणा' (पृ० ३०४ ) इत्यत्र 'वररत्ना' इत्यनेनैकेन रत्नशब्देनैव जलधिलहरिरूपोपमानपक्षे भार्यारूपोपमेयपक्षे च (वराणि रत्नान्याभरणेषु यस्याः सा) पर्याप्ततया सुसंगतिकस्य संभवतश्च 'वररचना' इतिरूपस्योपेक्षा; यथा वा 'सुरयणमहियं' (पृ० ३६९) इत्यत्र सुरत्नमहितेनैकेनैव शब्देन पक्षद्वयेऽपि निर्वाहादभ्यधिकस्य 'सुरजनमथितं. इत्यस्योपमानपक्षे घटमानस्याधिकस्य रूपस्यानुपादानम् । एवमन्यत्रापि । सर्वत्रापि पर्याप्तरूपमात्रस्यैव ग्रहणं, नाधिकस्ये
त्यत्र निगर्वः। २ (क) कतिपयप्राकृतशब्दानां निष्पद्यमान एकार्थकेपि संस्कृतरूपद्वय एकं वर्णपरावृत्तिसहम,
इतरच तत्परिवर्तनरहितं भवति, यथा प्राकृतस्य तूर' शब्दस्य संस्कृते तूर-तर्ये इति, मोरशब्दस्य च संस्कृते मोर-मयूराविति । एतादृशस्थलेषु प्रायो वर्णपरात्तिरहितमेव रूपं
छायायामुपात्तम् । (ख) येषां तु द्वे अपि वर्णपरावृत्तिसहे एव, यथा 'सुक्ख' शब्दस्य सुख-सौख्ये, 'कोऊहल'
___ स्य वा कुतूहल-कौतूहले । तेषां स्थानभेदेन कुत्रापि कतरदुपात्तम्, अविशेषात् । ३ (क) तादृशा अप्यनेके सन्ति शब्दाः, येषां प्राकृतत्वे संस्कृतत्वे वा प्राच्यविदुपामपि मतभेदः, यथा
'चिहुर' शब्दस्य हेमचन्द्रमते प्राकृतत्वेऽपि दुर्गस्तं संस्कृतं मन्यते । 'द्रह' शब्दस्यान्यमते
१ अभिधानचिन्तामणौ २, २०० । २ हे० प्रा० १, १७१ सूत्रस्य वृत्तौ । ३ अभिधानचिन्तामणौ ३, ५९० । ४ हे० प्रा० १, १८६ मत्रवत्तौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 220