Book Title: Supasnahachariyam Part 03
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
प्रस्तुतग्रन्थस्य प्राकृतभाषा यात्वं प्रागेवोक्तम् । प्राकृतभाषा च, आसतामितरे, संस्कृतविदुषामपि संप्रति दुरवबोधा । प्राकृतव्याकरणातिरिक्तं प्राकृतसाहित्यग्रन्थपरिशीलनमवश्यमपेक्षते प्राकृतभाषावबोधः । विना संस्कृतानुवादसाहाय्यं तत्परिशीलनं च नेपत्करम् । इति संस्कृतानुवादसहकृतस्यैवास्य समुपकारकत्वमवधार्य, विहितेऽपि गवेषणे क्यापि प्राच्याचार्यविनिर्मितमस्य संस्कृतानुवादम् , अनुवादोपयोगि विवरणं, विषमस्थानटिप्पनकं वा किञ्चिदप्यनासाद्य, तत्करणेऽपि प्रत्तिमकार्षम् ।
प्राकृतस्य संस्कृतानुवादः ( न तु टीका ) प्राच्यग्रन्थेष्वपि क्रमेण यावत्संभ तत्प्रतिरूपकैः ( अभिन्न प्रकृतिकैः ) एव संस्कृत शब्दैविहितः, विशिष्टेन 'छाया' शब्देनाभिहितश्च विलोक्यते । एवंविधस्य च्छायारूपस्यानुवादस्य नियन्त्रितशब्दमर्यादतया क्वचिद् भावसौन्दर्यहानिकारकत्वे सल्यपि प्राकृतभाषावबोधजनकत्वेऽनन्यसदृशं साहायक विधायकत्वमसाधारणो गुणः । इत्येनमेव गुण, यो वर्तमानसमयेऽत्युपयुक्ततां दधाति, अग्रेकृत्य प्राचीनरूढिमनुसरन्नत्रापि तादृशानुवाद( छाया )मेव विधाय मूलग्रन्थस्याधोभागे न्यबीविशम् ।
छायायामत्र या. पद्धतिरङ्गीकृता, तस्या विषयेऽत्र क्रियमाणं किञ्चित्स्पष्टीकरणं, वाढं विश्वसिमि, औचित्यं नातिक्रमिष्यति;--- १ (क) यथा क्वचिदेकस्यापि तीर्थ-कुतूहल-बृहस्पत्यादेः संस्कृतशब्दस्य प्राकृतेऽनेकरूपाणि व्या
करणनियमेन सिध्यन्ति, तथा क्यापि समत्त-पच-मय-सत्थप्रभृतेः प्राकृतस्याप्येकस्य शब्दरूपस्य नानाविधानि संस्कृतरूपाणि भवितुमर्हन्ति; सत्यप्येवम्, प्रकरणसंगतार्थकमेवेक रूप विहाय नान्यानि तत्रोपयुज्यन्त इति सुप्रसिद्धमेतत् । किन्तु यत्र प्रकरणसगतान्यप्येकस्य प्राकृतशब्दस्य नानाविधानि संस्कृतरूपाणि संभवन्ति, तत्राप्यन्यतरस्यैवेहोपादानं कृत्वा
न्यान्युपेक्षितानि, यथा-'सुहयर' शब्दस्य, (पृ०३) प्रकरणाविरोधेन संगम्यमानानां शुभकर-सुखकर-शुभतरशब्दानां त्रयाणामपि मध्य एकतम एव सुखकरशब्द आदृतः, अन्यावुपेक्षितो, एकेनैव रूपेण पर्याप्तप्रयोजनत्वात ; एवं नियडि अ' प्रभृतेरपि निर्वृत्तनिष्पतित-स्पष्टभूतादीनामेकतमस्यैवैकत्रोपादानम् , उक्तादेव कारणात् ; रूपवैचित्र्यदर्शन
स्यापि स्थलभेदनकतममपि भिन्न भिन्न रूपमादाय यावत्सभवं साधितत्वात् ।। (ख) यत्र च श्लेषप्रमङ्गस्तत्र पक्षद्वये पृथक् पृथक् संबध्यमानं रूपद्वयमप्यादृतम् , अन्यथा भिन्न
१ तित्थ, तूह (हे० प्रा० १, १०४ ); को ऊहल, कुऊहल, कोउहल्ल ( हे० प्रा० १, ११७ ); पढुम, पुटम, पढुम, पढम ( हे० प्रा० १, ५५ ), भयस्सइ, भयप्फइ, भयप्पइ, बहस्सइ, बहफइ, बह पह, बिहस्सइ, बिहप्फइ, बिहप्पइ, बुहस्सइ, बुहप्फइ, बुहप्पड़, (हे० प्रा० २, १३७ ) । २ समस्त, समात; पत्र, पात्र, प्राप्त: मद, मत, मृग, मृत शस्त्र, शास्त्र, साथ स्वस्थ, स्वास्थ्य, कशात. यात स्वार्थ साका. स्वात्र ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 220