Book Title: Supasnahachariyam Part 03
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 10
________________ प्रस्तावना | अयं सुपार्श्वनाथचरितनामा पद्यात्मको विस्तीर्णः प्राकृतग्रन्थः । सप्तमतीर्थकरस्य भगवतः सुपार्श्वनाथस्य चरितमत्र प्रतिपाद्य विषयो ग्रन्थनाम्नेव प्रकटः । भगवदुपदेशमस्ताव एवास्य ग्रन्थस्य महान्तमंशमवरुणद्धि । तत्र श्रावकाणां सम्यक्त्वमूलानि द्वादश व्रतानि, प्रत्येकं तेषां पञ्च पञ्चातिचारान् दूषणानि ) चाधिकृत्य व्रतपालने सुफलोपलम्भः, अतिचाराधाने च समुचितो दण्डवधिरेकैककथाद्वारा समुपदिष्टः । प्रायः प्रत्येकमपि कथायाः केवलं व्रताद्युपदेशविधावेव पर्यवसानमकृत्वा प्रसङ्गानुसंधानपुरस्सरं कस्यांचिद् बुद्धिमाहात्म्यम्, क्वचित् कला कौशल्यम्, कापि वासना - वैषम्यम्, क्वचन प्रकृतिप्रभावम्, कुत्रापि च तत्त्वरहस्यादिकं सरलेनाथ च सरसेन रचनासंदर्भेण व्यावर्णयन ग्रन्थकारः स्वसमयविद्यमानस्य लौकिकाचार-व्यवहारस्य, सामाजिकप्रथायाः, राजकीयपरिस्थितेः, धार्मिकभावस्य, नैतिकजीवनस्य, अन्यस्यापि च तादृशस्यानुषङ्गिकस्य ज्ञातव्यवस्तुनः समुल्लेखं विहितवान् । अतोऽयं ग्रन्थो यथा जैनधर्मावलम्विनां धार्मिक शिक्षाविषयत्वेनोपकारकतामाकलयति, अन्येषामपि काव्यरसास्वादरतिकानां रसिकानां पुरातत्वानुसंधानैकलक्षाणां दक्षाणां, भारतवर्षीयभाषातत्त्वपरिशीलनोयुक्तानां चाभियुक्तानां तथैवोपयोगितामावहति, इति संप्रधार्य, अद्याप्यमुद्रितस्यास्य ग्रन्थस्य संपादनकर्मणि व्यापृतोऽभवम् । इतर प्राकृत काव्यग्रन्थेष्वव प्रकृतग्रन्थे पेरिच्छेदरूपः, औश्वासकात्मकः, सँर्गस्वरूपः, अन्यो वा कश्चन तादृशः प्रकरणत्रिभागो नोपलब्धः अथ च गौमवध इव गाथाङ्कानामखण्डितप्रवाहो यावदन्तं ग्रन्थस्यास्य पुरातनादर्शपुस्तकेषु दृष्टः केवलं भगवतः पूर्वभवद्यवर्णनपरिसमाप्तावुपान्त्यगाथायां “पढमपत्यावो” इति, उपसंहारवाक्ये "य सिरिसुपासनाहचरिए पढमो बी श्रो सुरजवो समत्तो" इति च दीक्षा वर्णनावसानेऽत्यगाथायां “डुश्यपत्थावो" इति; केवलज्ञानोत्पत्युपक्रमान्ते " इति श्री सुपार्श्व जिनचरित्रे केवलज्ञानश्री प्राप्तिः” इति एवमेव च ततः परं प्रत्येककथावसाने " इति सम्यक्त्वप्रशंसायां चम्पकमालाकथानकं समाप्तम्” इत्याद्याकाराणि संस्कृतभाषायामेवोपसंहारवाक्यान्युपलब्धानि । अतो गाथाfiedoवेव ग्रन्थकाराभिमतेषु स्थानेषु विभज्य तदुल्लेखानुसारी प्रकरणविभागो विहितः ग्रन्थकारेणान्तरान्तरा प्रमाणरूपेणोद्धृताः संस्कृत श्लोकाश्च प्रवाहागतेन पद्माङ्केन विरहय्य लघ्वक्षरेषु मुद्रिताः; पाठकगणः सौकर्येण तद्भेदं विकरोत्विति । १ यथा सुरसुन्दर्यादौ । २ यथा संतुबन्धे । ३ यथा कुमारपालचरिते ( प्राकृतद्वयाश्रये ) । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 220