Book Title: Supasnahachariyam Part 03
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 13
________________ संस्कृतत्वेऽपि हेमचन्द्रमते प्राकृतत्वम् । 'जवर' शब्दः केवलार्थ प्राकृतव्याकरणेषु निपात उक्तः, बहुभिर्विदिश्च संस्कृतत्वेन तस्य प्रयोगः कृत उपलभ्यते । 'चड' इति रुहधातोरादेशो हेमचन्द्रेण विहितः, अथ चानेकेषु संस्कृतान्थेषु 'चट' धातोव्यबहारो दृश्यते । एवमेव 'वेउब्धिय' प्रकृतीनां प्राकृतशब्दानां संस्कृते क्रियादिवद् विकुर्वितप्रमुखाणि रूपाण्यपि विद्वद्भिः प्रयुक्तान्यनेकश विलोक्यन्ते । एतादृशेषु विवादापनेषु स्थलेषु सादृश्यानुबन्धितया संस्कृतत्वपक्ष एवात्र च्छायायां विशेषेणाहतः; इतरस्यापि यतस्थातिरस्करणीय त्वेन क्वचित् प्राकृतत्वयप्युररीकृतम् । (ख) 'महई' इत्यादीनां पुनः सादृश्यानुबन्धितया 'महति' इति संस्कृतत्वपक्ष कवचिदुपलभ्यमान मप्यनादृत्य प्राकृतव्याकरणकारवाञ्छार्थकधात्वादेशविधानद्वारा गृहीतः प्राकृतत्वपक्ष एवात्राप्युपात्तः, संस्कृते महादिधातूनां वाञ्छाद्यर्थे प्रयोगस्याहृदयहारित्वात्, सादृश्यानु बन्धस्यापि प्रकरणसंगतार्थानुपातिन एवोपादेयत्वादिति। ४ (क) प्राकृतव्याकरणानामपि परस्परं नाल्पीयान् मतभेदैः । अयं च सुख्यतो विभागद्वये विभक्तुं शक्यते, अर्थपरः शब्दरूपविषयथ । तत्र प्रथमप्रकारो यथा, 'णवरि' शब्दस्य प्राकृतप्रकाशहेमचन्द्रव्याकरणयोरानन्तर्वार्थकत्वमुक्तम्, अन्येन केवलार्थकत्वमपि । एवंरूपेऽर्थविपये मतभेदे प्रकरणसंगतेरेत्रात्र निर्विवादं नियामकत्वेन तत्संगत एवार्थश्छायायामनुसतः ।। (ख) यत्र पुनरामेदेऽपि शब्दरूपविषयको मतभेदः, यथा, पररुचिः 'यद' इत्यस्य 'बोल्ल' इति 'इप' इत्यस्य च 'मह' इति रूपं व्याकरोति, हेमचन्द्रः पुनः 'कथ' इत्यस्य 'काङ्क्ष इत्यस्य च क्रमेण 'बोल्ल, इति 'मह' इति चादिशति; एवं ष्यन्तस्यैव 'दृ धातोः 'दम' आदेशो हेमचन्द्रमते, केवलस्य तु प्राकृतप्रकाशे; तत्र विवादास्पदे प्रकृतिनिर्देशे हेमचन्द्रव्याकरणस्यैव विस्तीर्णतया विशेषोयकारकत्वात्, मूलग्रन्थेऽपि तल्लक्षितस्य तकारलुगादिनियमस्य विशेषण दृग्गोचरीभवनात्, वर्णविसदृशतायाश्चोभयत्र तुल्यत्वाद हेमचन्द्रव्या करणानुसरणं छायायां विशेषेण विहितम् । १ हे० प्रा० २, ८० सूत्रवृत्तिः । २ प्राकृतप्रकाशे ८, ७; हे० प्रा० २, १८७ । ३ विशेषावश्यकभाष्यटीका पृ० ११३६; औपपातिकसूत्रटीका पृ० १३३; प्रश्नव्याकरणटीका १० ३४४, ३७४; उपदेशरत्नाकरस्य १७ तरङ्गः; विषाकसूत्रटीका पृ० ४४ । ४ हीरसौभाग्यटीका १, २८; "चटिष्यति कथं प्रौढदेहोऽयं गजराजवत् ” इति ऋषिमण्डलवृत्तिः; दोधकवृत्तिः पृ० २, ४ १, ५२, ५६ । ५ प्रश्नव्याकरणटीका पृ० ३१५; वि० भा० टीका । ६ सेतुबन्धटीका १, ६ । ७ प्रा० प्र० ८, १५; हे. प्रा० ४, १९२ । ८ हे० प्रा० १, ३५ । १, ८८ | १, २०९ । २, १५९ । प्रा० प्र० का० २, ४७ । ४, २४ । ९ हे० प्रा० २, १८८ । १० हे० प्रा० १,२०९ । ११ वस्तुतस्तु विशिष्टवर्ण Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 220