________________
संस्कृतत्वेऽपि हेमचन्द्रमते प्राकृतत्वम् । 'जवर' शब्दः केवलार्थ प्राकृतव्याकरणेषु निपात उक्तः, बहुभिर्विदिश्च संस्कृतत्वेन तस्य प्रयोगः कृत उपलभ्यते । 'चड' इति रुहधातोरादेशो हेमचन्द्रेण विहितः, अथ चानेकेषु संस्कृतान्थेषु 'चट' धातोव्यबहारो दृश्यते । एवमेव 'वेउब्धिय' प्रकृतीनां प्राकृतशब्दानां संस्कृते क्रियादिवद् विकुर्वितप्रमुखाणि रूपाण्यपि विद्वद्भिः प्रयुक्तान्यनेकश विलोक्यन्ते । एतादृशेषु विवादापनेषु स्थलेषु सादृश्यानुबन्धितया संस्कृतत्वपक्ष एवात्र च्छायायां विशेषेणाहतः; इतरस्यापि यतस्थातिरस्करणीय
त्वेन क्वचित् प्राकृतत्वयप्युररीकृतम् । (ख) 'महई' इत्यादीनां पुनः सादृश्यानुबन्धितया 'महति' इति संस्कृतत्वपक्ष कवचिदुपलभ्यमान
मप्यनादृत्य प्राकृतव्याकरणकारवाञ्छार्थकधात्वादेशविधानद्वारा गृहीतः प्राकृतत्वपक्ष एवात्राप्युपात्तः, संस्कृते महादिधातूनां वाञ्छाद्यर्थे प्रयोगस्याहृदयहारित्वात्, सादृश्यानु
बन्धस्यापि प्रकरणसंगतार्थानुपातिन एवोपादेयत्वादिति। ४ (क) प्राकृतव्याकरणानामपि परस्परं नाल्पीयान् मतभेदैः । अयं च सुख्यतो विभागद्वये विभक्तुं
शक्यते, अर्थपरः शब्दरूपविषयथ । तत्र प्रथमप्रकारो यथा, 'णवरि' शब्दस्य प्राकृतप्रकाशहेमचन्द्रव्याकरणयोरानन्तर्वार्थकत्वमुक्तम्, अन्येन केवलार्थकत्वमपि । एवंरूपेऽर्थविपये
मतभेदे प्रकरणसंगतेरेत्रात्र निर्विवादं नियामकत्वेन तत्संगत एवार्थश्छायायामनुसतः ।। (ख) यत्र पुनरामेदेऽपि शब्दरूपविषयको मतभेदः, यथा, पररुचिः 'यद' इत्यस्य 'बोल्ल'
इति 'इप' इत्यस्य च 'मह' इति रूपं व्याकरोति, हेमचन्द्रः पुनः 'कथ' इत्यस्य 'काङ्क्ष इत्यस्य च क्रमेण 'बोल्ल, इति 'मह' इति चादिशति; एवं ष्यन्तस्यैव 'दृ धातोः 'दम' आदेशो हेमचन्द्रमते, केवलस्य तु प्राकृतप्रकाशे; तत्र विवादास्पदे प्रकृतिनिर्देशे हेमचन्द्रव्याकरणस्यैव विस्तीर्णतया विशेषोयकारकत्वात्, मूलग्रन्थेऽपि तल्लक्षितस्य तकारलुगादिनियमस्य विशेषण दृग्गोचरीभवनात्, वर्णविसदृशतायाश्चोभयत्र तुल्यत्वाद हेमचन्द्रव्या
करणानुसरणं छायायां विशेषेण विहितम् । १ हे० प्रा० २, ८० सूत्रवृत्तिः । २ प्राकृतप्रकाशे ८, ७; हे० प्रा० २, १८७ । ३ विशेषावश्यकभाष्यटीका पृ० ११३६; औपपातिकसूत्रटीका पृ० १३३; प्रश्नव्याकरणटीका १० ३४४, ३७४; उपदेशरत्नाकरस्य १७ तरङ्गः; विषाकसूत्रटीका पृ० ४४ । ४ हीरसौभाग्यटीका १, २८; "चटिष्यति कथं प्रौढदेहोऽयं गजराजवत् ” इति ऋषिमण्डलवृत्तिः; दोधकवृत्तिः पृ० २, ४ १, ५२, ५६ । ५ प्रश्नव्याकरणटीका पृ० ३१५; वि० भा० टीका । ६ सेतुबन्धटीका १, ६ । ७ प्रा० प्र० ८, १५; हे. प्रा० ४, १९२ । ८ हे० प्रा० १, ३५ । १, ८८ | १, २०९ । २, १५९ । प्रा० प्र० का० २, ४७ । ४, २४ । ९ हे० प्रा० २, १८८ । १० हे० प्रा० १,२०९ । ११ वस्तुतस्तु विशिष्टवर्ण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org