________________
प्रसिद्धिमपश्यता कुमारपालचरित (प्राकृतद्धयाश्रय ) टीकायां प्रक्रमागतस्यापि तस्य स्थाने देश्यस्येव मर्यादापर्यायेणैव व्याख्यानमालोकयताऽत्रापि तद्भवत्वपक्षमुपेक्ष्य देश्यत्व
मेवोररीकृतम् (घ) मुत्कलप्रमुखाणां तु संस्कृतसाहित्येऽप्युक्तवत् क्वचिद् व्यवहारदर्शनात्, प्रसिद्धयभावाचोभय
मपि तद्भवत्वं देश्यत्वं च-स्थानभेदेनाङ्गीकृतम् । (ङ) 'अमह' आदीनां त्वर्थभेदेन तद्भवत्वं देश्यत्वं च, इति तेषां प्रकरणसंगत्या क्वचित् किश्चि
दिन्युभयमप्यविरुद्धतयाञाश्रितम् । ६ (क) देश्यशब्दानां चैकेनैव देशीनाममालादिप्रतिपादितेन केनचिच्छब्देन च्छायानुवादवि
धाने न किश्चिद् निवन्धनमाकलयामः, किन्तु तदर्थकेनान्येनापि शब्देन तत्करणं नानुचितम् । वर्णसादृश्यानुबन्धस्य तद्भवप्राकृतविषयत्वात् । अत एव प्राच्यग्रन्थेषु 'धणि प्रमुखदेश्यशब्दानां बहु-गाढ-बाढादिशब्देनेवात्रापि 'पञ्चोणी' आदिदेश्यानां समानार्थकेनापि भिन्नभिन्नशब्देनानुवादो विहितः, समानार्थेष्वपि शब्देषु प्रकरणानुरोधेन क्वचित् कस्यचित् सौन्दर्यावहत्वात् । अत एव 'हु' 'चिय' आयव्ययानामपि व्याकरणेषु तद्भवप्राकृतत्वेनाधिकृतानामपि वस्तुतो देश्यप्रपञ्चान्तर्गतानां भिन्नभिन्नैः 'हि' 'एव' 'अपि' 'खलु' प्रभृतिभिः
शब्दरत्रानुवादः कृतः। (ख) येषां तु पोट्ट-मेहरी-भुरुंडियादिशब्दानां देशीनाममालाप्रतिपादितानां क्रमश उदर-ग्राम
प्रवरा-शिवाद्यर्थानां प्रकरणार्थेनासंगतिः, तेषामनुवादे देशीनाममालोक्तमर्थमगृहीत्वा प्रकरणसंगत्योद्यमान एवार्थः समुपात्तः, प्रकरणासंबद्धवचनानामनुपादेयत्वात् । अत एव तद्भवप्राकृतानां 'गैड' आदिशब्दानामपि गर्ताद्यननुवादेन शकटाद्यर्थग्रहणमिह विहितम् । प्रकृतग्रन्थेपभ्रंशातिरिक्तेषु प्राकृतपद्येष्वपि वहवस्तादृशाः शब्दा दृष्टिपथमवतरन्ति, येषां शुद्धेन तद्भवप्राकृतत्वेन देश्यत्वेन वा व्यपदेशो दुःशकः कर्तुम् , व्याकरणनियमाननुपातित्वात्, देशीकोषे चानुपलम्भात् ; अथ च शुद्धैस्तद्भवप्राकृतैर्देश्यैर्वा शब्दैः सह वर्णसादृश्यानुवन्धं प्रकरणसंगतार्थसमानतां च पश्यस्तेषामपभ्रष्टरूपतामनुममानस्तत्तत्माकृत-देश्यशब्दार्थानुसारेण प्रागुक्तशैल्या छायामकार्षम् । कतिपयानि तादृश्यत्रोदाहरणानि;--
१ तद्भवत्वे अणहं = अनघम्,देश्यत्वे अणहं = अक्षतम् ( दे० ना० १, १३ ) एवं तद्भवत्वे तत्ती
तृप्तिः, देश्यत्वे तत्ती = तत्परता, आदेशश्च (दे० ना० ५, २० )। २ चतुर्थपृष्ठस्यैकादशाङ्का टिप्पनी द्रष्टव्या । ३ अनुक्रमं ६, ६० । ६, १२१ । ६, १०१ । ४ हे० प्रा० २, ३६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org