Book Title: Siddhant Chandrika Purvarddham
Author(s): Ramsharma Pandit
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 269
________________ [ समासप्र० ] टीकाद्वयोपेता। (२५३) वादिणः क्तः ॥ गेहेनर्दी । 'नर्द शब्दे।' अस्माण्णिानिः । सप्तम्या अलुगत्र । एषां समासान्तरे प्रवेशो न भवतीत्यर्थः ॥ (तत्त्वदी०)-पात्रेसमिता इति ॥ भोजनसमय एव संगता न तु कार्यकाल इत्यर्थः । अत्र सप्तम्या अलुक् ॥ (नत्रि) ननि पूर्वपदे सति योऽन्वयः स तत्पुरुषसंज्ञः समासो भवति ॥ (सुबोधिनी )-नजि ॥ द्वौ नौ प्रसज्यपर्युदासार्थको। पर्युदासार्थकस्य नत्र एकार्थीभाव समासः। व्यपेक्षायांतु वाक्यमेव भवति । प्रसज्यप्रतिषेधार्थस्य तु क्रिययैवान्वयो न नाम्ना। अनन्वयेऽपि क्वापि नाम्रा समासः। इण तन्यकर्तरीति ज्ञापकात् । कर्तरि न भवतीति तदर्थः। तेनासूर्यपश्या राजदारा इत्यादि सिद्धम् । तदन्यतविरुद्धतदभावा इति त्रयो नोर्थाः। "तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता॥ अप्राशस्त्यं विरोधश्च नर्थाः षट प्रकीर्तिताः॥१॥” इति केचित् । यथा। अब्राह्मणः।अपापम् । अनश्वः । अनुदरा कन्या । अपशवः । अधर्मः । नइसमासो हि अर्थाभावेऽव्ययीभावेन सह विकल्प्यते । अद्रुतायामसंहितमिति वार्तिकप्रयोगात् ॥ (तत्त्वदी० )-नजीति ॥ पर्युदासप्रसज्यार्थत्वेन नो द्विविधत्वात्पर्युदासार्थस्योत्तरपदेनान्वयात्समासः। व्यपेक्षायां वाक्यमपि । प्रसज्यार्थस्य तु क्रिययैवान्वयादुत्तरपदेनान्वयाभावान समासः ॥ नन्वेवमसूर्यपश्यानि मुखानीत्यादौ कथं समास इति चेत्सत्यम् । इण् तन्यकर्तरीत्यत्र हि नहि कर्तरीत्यर्थात्प्रसज्यार्थस्य समासदर्शनादनन्वयेऽपि क्वचित्समासः ॥ (ना) समासे नञो नस्यादेशः ॥ धर्मविरुद्धोऽधर्मः । ज्ञानविरुद्धमज्ञानम् । संशयस्यासंभवोऽसंशयः ॥ ( सुबोधिनी)-ना ॥ न अ इति च्छेदः ॥ आख्तातान्ते परेऽपि समासे नजो नकारस्याऽदादेशो भवति निन्दार्थे ॥ अपचसि त्वं जाल्म । कुत्सितं पचसीत्यर्थः ॥ (तत्त्वदी० )-ना इति ॥ न अ इति च्छेदः ॥ अत्र नजीत्यनुवर्तते इत्याह-नञ इति।। ञकारस्यानुबन्धत्वादकारस्याकारादेशे प्रयोजनाभावात्सर्वादेशः । नञ्समासस्तु प्रतिपदोक्तोऽपि नानुवर्तते। अविघ्नमित्याद्यव्ययीभावेऽविद्य इत्यादिबहुव्रीहौ चाव्याप्तेः।परिभाषायास्त्वनित्यत्वात्।। (अन्स्वरे) समासे नत्रो नस्याऽन् स्यात्स्वर ॥ अश्वादन्योऽनश्वः॥ (सुबोधिनी )-अन्स्वरे ॥ अनश्व इत्यत्र झ्नो ह्रस्वादिति द्वित्वं तु न अनपीति निर्देशात् ॥ ( तत्त्वदी० )-अनश्व इति ॥ अनपीत्यादिलिङ्गात् झ्नो ह्रस्वादिति द्वित्वं न ।

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372