Book Title: Siddhant Chandrika Purvarddham
Author(s): Ramsharma Pandit
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 334
________________ (३१८ ) सिद्धान्तचन्द्रिका | [ तद्धितप्र० ] ( तत्त्वदी० ) - वतुल्ये इति ॥ अत्र क्रियाग्रहणमनुवर्तते । तच्च तुल्येन संबध्यते । तेन तुल्यायां क्रियायामित्यर्थो लभ्यते । तोलनं तुला तया संमितमिति विग्रहे कारकादिति ण्यप्रत्यये णितो वेति णित्त्वाभावाद्वृद्ध्यभावः । चतुर्वदित्यादिनिर्देशात क्रियासादृश्याभावेऽपि षष्ठयन्तात्सप्तम्यन्ताच्च भवति इत्याशयेनाह - मथुरावदित्यादि ॥ योगविभागान्महानसवदित्यादावक्रियासाम्येऽपि भवति ॥ (अपि) विधिमर्हति विधिवत् ॥ ( सुबोधिनी ) - अर्हेऽपि ॥ ऽर्थेऽपि द्वितीयान्ताद्वत् स्यात् क्रियातुल्ये ॥ विधिमर्हति विधिवत्पूज्यते । विधानं विधिः ॥ अर्हतीति अहः पचाद्यः ॥ ( भावे तत्वयणः ) शब्दस्य प्रवृत्तिनिमित्तं भावस्तत्र वाच्ये एते स्युः ॥ तान्तं स्त्रियाम् । त्वान्तं क्लीवम् । ब्राह्मणता ब्राह्मत्वम् ब्राह्मण्यम्॥ शुक्लता । शुक्लत्वम् । शौक्लयम् ॥ वैदुष्यम् ॥ ( सुबोधिनी) - भावे तत्वयणः ॥ तश्च त्वश्च यण च ते तत्वयणः । भावे तत्वयणः प्रत्यया अणादयश्च स्युः ॥ भावशब्दोऽनेकार्थवचनः । अभिप्राये यथा अयं भावः । पदार्थमात्रे यथा । विचित्रा भावशक्तयः । शृंगारादिषु यथा । स्यायिभावः संचारिभावः । प्रवृत्तिनिमित्ते धात्वर्थमात्रे च भावः । तेष्वत्र कस्य ग्रहणम् । उच्यते । प्रवृत्तिनिमित्तवचनस्य भावस्यात्र ग्रहणम् । भवन्ति शब्दा अनेनेति व्युत्पत्तेः । अभिप्रायादिवचनस्यात्र अग्रहोऽनभिधानात् । तथा च सिद्धान्तकौमुद्यां प्रकृतिजन्यबोधे प्रकारो भाव इति । उक्तं च हरिटीकायाम् । कृत्तद्धितसमासेभ्यः संबन्धाभिधानं भावप्रत्ययेनेति । तेन पाचकत्वमित्यत्र कर्तृत्वरूपः सम्बन्धः । औपगवत्यमित्यत्र जन्यत्वरूपः सम्बन्धः । राजपुरुषत्वमित्यत्र स्वत्वरूपसम्बन्धः ॥ तप्रत्ययान्तं स्त्रीलिंगम् । त्वप्रत्ययान्तं नपुंसकम् । यणन्तमुभयत्र । मैत्र्यं मैत्रीत्यादि । ब्राह्मणस्य भावः । यस्येत्यलोपः । ब्राह्मण्यम् । शुक्लाया भावः त्वतलोर्गुणवचनस्येति पुंवद्भावः। शुक्लत्वम् ॥ 1 ( तत्त्वदी ० ) - भावे तत्वयण इति ॥ तश्च त्वश्च यण् च ते ॥ भावशब्दोऽभिप्राया'द्यनेकार्थोऽप्यत्र प्रवृत्तिनिमित्तवचन एव गृह्यते न त्वभिप्रायाद्यर्थः । प्रवृत्तिनिमित्त भिन्नानामनभिधानादित्याशयेनाह - शब्दस्येत्यादि ॥ प्रवृत्तेर्निमित्तं प्रवृत्तिनिमित्तं तस्मिन् प्रत्यया इत्यर्थः। • अणन्तमुभयत्र । मैत्र्यम् । मैत्री ॥ ( कर्मण्यपि ) ब्राह्मणस्य कर्म ब्राह्मण्यम् । राज्यम् । स्वैन्यम् ॥

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372