Book Title: Siddhant Chandrika Purvarddham
Author(s): Ramsharma Pandit
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 341
________________ [तद्धितप्र० ] टीकाद्वयोपेता। विष्वक् । विष्वगस्यास्मिन्वाऽस्ति ॥ विषुणः । विषुवदाख्यः कालः । 'समरात्रिदिवे काले विषुवद्विपुणं (4) च तत्' इत्यमरः ॥ पिच्छं चिक्कणमस्यास्मिन् वास्ति पिच्छिलः ॥ तुन्दमस्यास्मिन्वा तुन्दिलः । फेनमस्यास्मिन्वा फेनिलः ॥ उरसिलः। उरस्वान् ॥ पिच्छवान् ॥ __ (तत्त्वदी० )-विषुणइति ॥ विषु नाना अञ्चन्तीति विष्वञ्चि तान्यस्य सन्तीति विषुणः विषुवदाख्यः कालः । तस्य हि नानागतानि दिनानि सन्ति दिनान्तराणांन्यूनाधिकभावस्य तन्मूलकत्वात् । यदि कृतसन्धेः स्यात्तदा वलोपे विष्ण इति स्यादित्यत आह--अकृतसन्धेरिति॥ (सिध्मादेर्लः ) सिध्मलः । चूडालः ॥ (सुबोधिनी)-सिध्मादेर्लः ॥ सिध्मादेर्गणालप्रत्ययः स्यादस्त्यर्थे ।। पक्षे वतुः॥ सिध्मवान् । वात दन्त बल ललाट वत्स अंस फेन धमनि क्षुद्रजन्तु उपताप गड्ड मणि विजय निष्पाप पांशु हनु पाणि चूडा सिध्मादयः॥ पाणिधमन्यादीर्घश्च । पाणीलः। धमनीलः॥ क्षुद्रजन्तुर्यथा । यूकालः । मक्षिकालः ॥ उपतापो रोगः। विषादिकाऽस्यास्ति विपादिकालः । 'पादस्फोटो विपादिका' इत्यमरः ॥ सिध्ममस्यास्मिन्वाऽस्ति सिध्मलः ॥ चूडाऽस्यास्मिन्वाऽस्ति चूडालः॥ वातदन्तबलललाटानामूङ् च वातूलः । इत्यादि ॥ (कुमुदनडवेतसेभ्यो वतुः ) कुमुद्दान् । नड्वान् । वेतस्वान् ॥ (सुबोधिनी )-कुमुदनडवेतसेभ्यो ड्वतुः ॥ एभ्यो वतुप्रत्ययः स्यादस्त्यर्थे । डित्त्वाहिलोपः ॥ कुमुदान्यस्यास्मिन्वा सन्ति कुमुद्दान् । नडा अस्यास्मिन् सन्ति । नड्वान् ॥ वेतसा अस्यास्मिन् वा सन्ति वेतस्वान् ॥ (महिषाङ्मतुः ) महिष्मान देशः॥ (सुबोधिनी )-महिषाङ्मतुः ॥ महिषशब्दात् ड्मतुः स्यादस्त्यर्थे ॥ महिषा अस्यास्मिन् वा सन्ति महिष्मान् । टिलोपः॥ (नडशादाद् डुलः) नड्वलः । शाहलः॥ (सुबोधिनी)-नडशादाद् ड्वलः ॥ आभ्यां ड्वलप्रत्ययः स्यादस्त्यर्थे । नडा अस्यास्मिन्वा मन्ति नड्वलः । डित्त्वाहिलोपः ॥ शादोऽस्यास्मिन् वाऽस्ति शादलः। 'शादो जम्बालघासयोः' इत्यमरः॥ (शिखाया वलः ) शिखावलः ॥ (सुबोधिनी)-शिखाया वलः ॥ शिखाशब्दादलप्रत्ययः स्यादस्त्यर्थे । शिखाऽस्यास्मिन्याऽस्ति शिखावलः ॥

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372