Book Title: Siddhant Chandrika Purvarddham
Author(s): Ramsharma Pandit
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 344
________________ ( ३२८ ) सिद्धान्तचन्द्रिका | [ तद्धितप्र० ] नादुपधालोपो नप्रत्ययश्च ॥ तमोऽस्यास्मिन्वा तमिस्रम् । तमशब्दस्योपधाया इत्वं रप्रत्ययश्च । शृङ्गमस्यास्मिन्वाऽस्ति शृङ्गिणः अत्र इनप्रत्ययो निपातनात् ॥ ऊर्जोऽस्यास्मिन्वाऽस्ति ऊर्जस्वी ऊर्जस्वल: । विन्वलप्रत्ययो निपातनात् ॥ गौरस्यास्मिन् वाऽस्ति गोमी । मिन् प्रत्ययो निपातनात् ॥ मलोऽस्यास्मिन्वाऽस्ति मलिनः मलीमसः । मलशब्दादिने मसप्रत्ययौ निपातनादिति || ज्योत्स्नाऽस्यास्मि - न्वाऽस्तीत्यणि ज्योत्स्नः शुक्लपक्षः ॥ तमिस्रमस्यास्मिन्वाऽस्ति तामित्रः कृष्णपक्षो 'नरकविशेषश्च ॥ ' तमिस्रा तामसी रात्रिज्योत्स्नी चन्द्रिकायाऽन्विता ' इत्यमरोक्तौ तु तमित्येतदादन्तं न त्वणन्तमिति न विरोधः ॥ तपोऽस्यास्मिन्वाऽस्ति तापसः । विन्प्रत्ययोऽपि ।' तपस्वी ॥ सिकताऽस्यास्मिन्वाऽस्ति सैकतः इलप्रत्यये सिकतिलः ॥ वतौ तु सिकतावान् ॥ शर्कराऽस्यास्मिन्वाऽस्ति शार्करः । अणू । शर्करिलः । इलाः । शर्करा । तुपक्षे प्रत्ययस्य लुक् च भवति । सिकता । शर्करा । स्त्री शर्करा शर्करिलः शार्करः शर्करावति । देश एवादिमविवमुन्नेयाः सिकतावति ” इत्यमरः ॥ ( तत्त्वदी ० ) - जौत्स्न इति शुक्लपक्ष । तामिस्रः कृष्णपक्षे नरकविशेषे च ॥ 44 ( ऊपशुषिमुष्कमधुखमुखकुञ्जनगपांशुपाण्डुभ्यो रः ) ऊपरः । शुषिरम् । मुष्करः । मधुरः । खरः मुखरः । कुञ्जरः । नगरम् | पांशुरः । पाण्डुरः ॥ L (सुबोधिनी) - ऊषशुषिमुष्कमधुख मुखकुञ्जनग पांशुपाण्डुभ्यो रः ॥ एभ्यो रप्रत्ययः स्यादस्त्यर्थे ॥ ऊषोऽस्यास्मिन्वाऽस्ति ऊषरः । स्यादूषः क्षारमृत्तिका ॥ ऊषवानूषरः' इत्यमरः । शुषिरस्यास्मिन्वाऽस्ति शुषिरः शुपिश्छिद्रम् | ' वंशादिकं तु शुषिरम्' इत्यमरः ॥ मुष्कोऽस्यास्मिन्वाऽस्ति मुष्करः । मुष्कोण्डः ॥ मधुमाधुर्यमस्यास्मिन्वाऽस्ति मधुरः ॥ खमस्यास्मिन्वाऽस्ति खरः । महत् कण्ठविवरं खम् । गई रूढोऽयम् ॥ मुखमस्यास्मिन्वाऽस्ति मुखरः वाचालः । कुञ्जो हस्तिहनुरस्यास्मिन्वाऽस्ति कुञ्जरः ॥ नगा वृक्षाः पर्वताश्च ते अस्यास्मिन्वा सन्ति नगरम् । जातिशब्दोऽयम् । तेन स्त्रियां जातिलक्षण ईपू । नगरी । पांशू रजोऽस्यास्मिन्वाऽस्ति पांशुरः ॥ पाण्डुरस्यास्मिन्वाऽस्ति पाण्डुरः । ' हरिणः पाण्डुरः पाण्डुः ' इत्यमरः ॥ ( तत्त्वदी ० ) - ऊषशुषीति ॥ ऊषा हरिणाः । पांशवः रजांसि । शुषिश्छिद्रम् । कुञ्जो हस्तिहनुः ॥ नगरमिति ॥ नगाः वृक्षाः पर्वताश्च । जातिशब्दत्वान्नगरीत्यपि ॥ पाण्डुर इति ॥ पाण्डुः शुक्लो वर्णस्तद्वान् ॥ ( कच्वा ह्रस्वत्वं च ) कच्छुरः । 4

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372