Book Title: Siddhant Chandrika Purvarddham
Author(s): Ramsharma Pandit
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 343
________________ [ तद्धितप्र० ] टीकाद्वयोपेता। ( ३२७) (सुबोधिनी )-बलादूल; ॥ बलशब्दादूलप्रत्ययः स्यात्तदसहनेऽर्थे । (वातात्समूहे च ) वातं न सहते वातानां समूहो वावातूलः ॥ (सुबोधिनी )-वातात्समूहे च ॥ वातशब्दादूलप्रत्ययः स्यात्तदसहनेऽर्थे समूहेऽर्थे च ॥ बलूलवातूलशब्दावस्त्यर्थे च व्युत्पादितौ ॥ (तः पर्वमरुद्भयाम् ) पर्वतः । मरुत्तः॥ (सुबोधिनी )-तः पर्वमरुद्भवाम् ॥ आभ्यां तः प्रत्ययोऽस्त्यथ ॥ पर्वास्यास्मिन्वाऽस्ति । नाम्नो न इति नलोपः पर्वतः । मरुदस्यास्मिन्वाऽस्ति मरुत्तः॥ ( ऊर्णाहंशुभंभ्यो युः) ऊर्णायुः । अहंयुः । शुभंयुः॥ (सुबोधिनी )-ऊर्णाहंशुभंभ्यो युः॥ एभ्यो युः प्रत्ययः स्यादस्त्यर्थे ॥ ऊर्णाऽस्यास्मिन् वाऽस्ति ऊर्णायुः। अत्र निपातनाद्यस्येत्यालोपो न । अहमिति मान्तमव्ययमहंकारे । शुभमिति च शुभे । अहंयुरहंकारवान् । शुभंयुः शुभान्वितः ॥ ( स्वादामिन्नैश्वर्यै ) स्वमैश्वर्यमस्यास्मिन्वाऽस्ति स्वामी ॥ (सुबोधिनी )-स्वादामिन्नैश्वर्ये॥ऐश्वर्य स्वशब्दादामिन् प्रत्ययः स्यादस्त्यर्थे । ईशिता हि ईश्वरस्तस्य भाव ऐश्वर्यम्॥ऐश्वर्ये किम्।स्ववान्।स्वंद्रव्यमस्यास्मिन्वास्ति॥ - ( वातातीसारपिशाचानामिनिः कुक् च ) वातकी । अतीसारकी। पिशाचकी ॥ (सुबोधिनी )-वातातीसारपिशाचानामिनिः कुक् च ॥ एभ्य इनिः प्रत्ययः स्यादस्त्यर्थे ॥ इकार उच्चारणार्थः ॥ एषां कुगागमश्च इनिप्रत्यये । वातोऽस्यास्मिन्वाऽस्ति वातकी । 'वातकी वातरोगी स्यात् ' इत्यमरः ॥ अतीसारोऽस्यास्मिन्वाऽस्ति अतीसारकी । रोगे चायमिनिरिष्यते नेह वातवती गुहा ॥ पिशाचोऽस्यास्मिन्वाऽस्ति पिशाचकी ॥ (ज्योत्स्नादिभ्योऽण् ) ज्योत्स्नः । तामिस्रः । तापसः । सैकतः । शार्करः॥ (सुबोधिनी )-ज्योत्स्नादिभ्योऽण् ॥ ज्योत्स्नादिभ्योऽण स्यादस्त्यर्थे ॥ किंच ज्योत्स्नातमिस्राङ्गिणोर्जस्विन्नूर्जस्वलगोमिन्मलिनमलीमसा अस्त्यर्थे निपात्यन्ते । ज्योतिरस्या अस्यां वाऽस्ति ज्योत्स्ना चन्द्रप्रभा । ज्योतिषशब्दस्य निपात

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372