Book Title: Siddhant Chandrika Purvarddham
Author(s): Ramsharma Pandit
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 359
________________ [ तद्धितप्र० ] टीकाद्वयोपेता। (३४३) व्रीहिः। द्विदशः । डप्रत्ययः ॥ अशीतिपरे च यशीतिः॥ प्राक् शताद्वक्तव्यम् । नेह । द्विशतम् । द्विसहस्रम् । द्वादशानां पूरणः द्वादशः। अष्टादशानां पूरणः अष्टादशः॥ (त्रेस्त्रयस् ) त्रयोदशः । चतुर्दशः । पञ्चदशः । षोडशः । सप्तदशः। (मुबोधिनी )- त्रस्त्रयस् ॥ त्रिशब्दस्य त्रयम् स्यात् ॥ बहुव्रीही अशीतिपरे च न त्रयश्च दश चेति त्रयोदशः । बहुव्रीहौ तु त्रिर्दशति त्रिदशाः । सुप्रत्ययार्थे बहुव्रीहिः ॥ आशीतौ तु व्यशीतिः ॥ प्राक् शतादित्येव । त्रिशतम् । त्रिसहस्रम् ॥ त्रयोदशानां पूरणः त्रयोदशः । चतुर्दशानां पूरणः चतुर्दशः ॥ पञ्चदशानां पूरणः पञ्चदशः॥ षोडशानां पूरणः षोडशः ॥ सप्तदशानां पूरणः सप्तदशः ॥ (विंशत्यादेर्वा तमट् ) विंशतितमः । एकेन ऊना विंशतिः एकोनविंशतिः । एकोनविंशतेः संख्यापूरकः एकोनविंशतितमः ॥ (सुबोधिनी )-विंशत्यादेर्वा तमट् ॥ विंशतिप्रभृतिभ्यो वा तमट् स्यात् । पक्षे एकादशादेरिति डट् । टित्त्वादीप् ॥ डट्प्रत्यये तु एकोनविंशतेः पूरणः॥ (विंशस्तिलोपो डिति ) एकोनविंशः । विंशः । त्रिंशत्तमः । त्रिंशः । द्वाप्यामधिका अशीतियशीतिः । व्यशीतेः संख्यापूरको व्यशीतितमः । द्विचत्वारिंशत्तमः । पञ्चाशत्तमः । षष्टेः सङ्ख्यापूरणः षष्टितमः । सप्ततितमः । नवतितमः ॥ (सुबोधिनी )--विंशतेस्तिलोपो डिति ॥ विंशतिशब्दस्य ति इत्यस्य लोपः स्यात् डिति प्रत्यये ॥ एकोनविंशः। तमटि एकोनविंशतितमः । विंशतः पूरणः विंशतितमः । डति तु विंशः । एकविंशतः पूरणः एकविंशतितमः। एकविंशः ॥ एवं द्वाविंशतितमः। द्वाविंशः ॥ त्रयोविंशतितमः । त्रयोविंशः ॥ चतुर्विंशतितमः ॥ चतुर्विंशः ॥ पञ्चविंशतितमः पञ्चविंशः ॥ षड्विंशतितमः । षड्विंशः ॥ सप्तविंशतितमः । सप्तविंशः ॥ अष्टाविंशतितमः। अष्टाविंशः ॥ किंच पङ्किार्विशतित्रिशच्चत्वारिंशत्पञ्चाशत्पष्टिसप्तत्यशीतिनवतिशतमेते निपातेन सिद्धाः ॥ एकोनत्रिंशतः पूरणः एकोनत्रिंशत्तमः । एकोनत्रिंशः॥ त्रिंशतः पूरणः त्रिंशत्तमः । त्रिंशः ॥ एवम् एकत्रिंशत्तमः । एकत्रिंशः ॥ द्वात्रिंशत्तमः ॥ द्वात्रिंशः ॥ त्रयस्त्रिंशत्तमः । त्रयस्त्रिंशः ॥ चतुस्त्रिंशत्तमः । चतुत्रिंशः । पञ्चत्रिंशत्तमः । पञ्चत्रिंशः ॥ षट्त्रिंशत्तमः । षट्त्रिंशः ॥ सप्तत्रिंशत्तमः । सप्तत्रिंशः ॥ अष्टात्रिंशत्तमः। अष्टात्रिंशः ॥ एकोनचत्वारिंशत्तमः । एकोनचत्वारिंशः ॥ चत्वारिंशत्तमः ।

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372