Book Title: Siddhant Chandrika Purvarddham
Author(s): Ramsharma Pandit
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 332
________________ सिद्धान्तचन्द्रिका। [तद्धितप्र०] रंपाढेगे इति चतुर्यश्च तनः स्यात् ॥ दोषेति रात्रौ । दोषा भवः दोषातनः। प्राहेतनः॥ प्रगे प्रातर्भवः प्रगेतनः । सप्तम्या अलुक् उभयत्र ॥ स्यतेपनि आतो युगिति युकि कृते सायशब्दोऽकारान्तो दिवसावसाने रूढः तस्य चिरशब्दोऽप्यदः न्तस्यापि प्रत्ययसंनियोगेन मान्तत्वं प्राहप्रगयोरदन्तत्वं च निपात्यते इति वार्तिककृन्मतम् । भाष्ये तु सायं चिरं च मान्तमव्ययं स्वीकृतम् ॥ __ (तत्त्वदी०)-शौवस्तिकमिति ॥ श्वो भवमिति विग्रहः । द्वारादित्वाद्वकारात्पूर्व युटि कृते पश्चाद्वृद्धिः ॥प्राहेतन इति ॥ एदन्तत्वं निपातनात् ॥ । (स्वार्थेऽपि) उक्ता वक्ष्यमाणाश्च प्रत्ययाः स्वार्थे स्युः ॥ देवदत्त एव दैवदत्तकः । चोर एव चौरः। वय एव वायसः । रक्ष एव राक्षसः । चत्वारो वर्णाश्चातुर्वर्ण्यम् । समीपमेव सामीप्यम् । चत्वारो वेदाश्चातुर्वैद्यम् । प्रज्ञ एव प्राज्ञः। चातुराश्रम्यम् । त्रैलोक्यम् । अनन्त एवानन्त्यम्। आवसथ एवावसथ्यम् । इतिह एवं ऐतिह्यम् । भेषजमेव भैषज्यम् ॥ (सुबोधिनी )-स्वार्थेऽपि॥ प्रकृत्यर्थेऽप्यणादयः स्युः ॥ देवदत्त एव दैवदत्तकः । णितो देति णित्त्वाद् वृद्धिः॥ चोर एव चौरः॥ वय एव वायसः ॥ रक्ष एव राक्षसः। अण ॥ चत्वारश्च ते वर्णाश्च चतुर्वर्णाः चतुर्वर्णा एव चातुर्वर्ण्यम् । ण्यः ॥ चतुरो वेदानधीते इति तद्धितार्थे द्विगुः । तमधीत इत्यर्थेऽण तस्य लुक च । चतुर्वेद एव चातुवैद्यः। ण्यः ॥ उभयत्र वृद्धिः॥ चत्वारश्च ते वेदाश्च चतुर्वेदाः चतुर्वेदा एव चातुवैद्यमिति वा ॥ प्रज्ञ एव प्राज्ञः ॥ अण ॥ चत्वार आश्रमा एव चातुराश्रम्यम् ण्यः ॥ त्रयश्च ते लोकाश्च त्रिलोकाः त्रिलोका एवं त्रैलोक्यम् ॥ अनन्त एद आनन्त्यः । ण्यः॥ आवसथ एवेति उपसर्गे वसेरथप्रत्ययः आवसथ्यं गृहम् । ण्यः ॥ इतिहति निपातसमुदायः । ऐतिह्यम् । ण्यः॥ भिषज्यतेः कण्ड्वादियगन्तात् कि । भिषक् । भिषजामिदं भेषजम् । अणि निपातनादेकारः ॥ भैषज्यम् । ण्यः॥ (तत्त्वदी०)-स्वार्थेऽपीति ॥ वय एव वायस इति । स्वार्थिकाः प्रकृतितो लिङ्गवचनानि न व्यभिचरन्तीत्यस्यौत्सर्गिकत्वाल्लिङ्गविपर्ययः॥ (भागरूपनामभ्यो धेयः) भाग. एव भागधेयम् । नामधेयम् । रूपधेयम् ॥ (सुबोधिनी)-भागरूपनामभ्यो धेयः॥ एभ्यो धेयप्रत्ययः स्यात्स्वार्थे ॥ "दैवं दिष्टं भागधेयं भाग्यं स्त्री नियातीवधिः” इति " आख्याढे अभिधानं च नामधेयं च नाम च" इति चामरः॥

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372