Book Title: Siddhant Chandrika Purvarddham
Author(s): Ramsharma Pandit
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 330
________________ (३१४) सिद्धान्तचन्द्रिका। [ तद्धितप्र.] नासिकाया नतेऽभिधेये इनपिटकाः प्रत्ययाः स्युः॥निशब्दस्य चिकचिचिका ययाक्रममादेशाश्च ॥ (तत्त्वदी० ) इनपिटका इति यथाक्रमं प्रत्ययत्रयम् आदेशत्रयं च बोध्यम् ॥ (किन्नस्य चिल्पिलचुलो लः प्रत्ययोऽस्य चक्षुषी इत्यर्थे ) क्लिन्ने चक्षुषी अस्य चिल्लः पिल्लः ।चुल्लः ॥ (सुबोधिनी )-क्लिनस्य चिपिल्चुलोलः प्रत्ययोऽस्य चक्षुषी इत्यर्थे। अस्य चक्षुषी एतस्मिन्नर्थे क्लिन्नशब्दालप्रत्ययः स्यात् क्लिन्नस्य चिल् पिल चल आदेशाश्च ॥ कथं तर्हि । “ स्युः क्लिन्नाक्षे चुल्लचिल्लापल्लाः क्लिन्नक्षिण चाप्यमी" इत्यमरः । इति चेत् अत्राहुः । पुरुषे व्युत्पादितानां तदवयवे लक्षणा बोध्याऽत्र ॥ ( उपाधिभ्यामासन्नारूढयोस्त्यकः ) पर्वतस्यासन्ना भूमिरुपत्यका । आरूढा अधित्यका ॥ ( सुबोधिनी )-उपाधिभ्यामासनारूढयारत्यकः ॥ उपाधिभ्यां त्यकः प्रत्ययः स्यात् ॥ आसन्नं समीपम् । आरूढमुच्चस्थानम् । तत्र संज्ञायाम् । पर्वतस्यासन्नं स्थलमुपत्यका । आरूढस्थलमधित्यका । क्षिपकादित्वात् काप्यत इतीत्वं न ॥ (कर्मणष्ठो घटते इत्यर्थे ) कर्मणि घटते कर्मठः ॥ (सुबोधिनी)-कर्मणष्ठो घटते इत्यर्थे ॥ सप्तम्यन्तात् कर्मन्शब्दात् ठप्रत्ययः स्यात् घटते चेष्टते इत्यर्थे । 'नो लोपः' इति नलोपः। “कर्मशूरस्तु कर्मठः” इत्यमरः।। (साक्षादृष्टरि संज्ञायां डिनिः) साक्षाद्दष्टा साक्षी। (सुबोधिनी )-साक्षाद्रष्टरि संज्ञायां डिनिः ॥ द्रष्टर्यर्थे साक्षादित्यव्ययात् डिनिः स्यात् संज्ञायामर्थे ॥ डित्वाहिलोपः । इनामिति दीर्घः । साक्षी ॥ (इष्टादिभ्य इनिरनेनेत्यर्थे ) इष्टमनेन इष्टी । अधीती । हैयङ्गवीनं श्रोत्रियः क्षेत्रियोऽनुपदी इत्यादयो निपात्याः । ह्योगोदोहोद्भयं हैयङ्गवीनम् । छन्दोऽधीते श्रोत्रियः परक्षेत्र चिकित्स्यः क्षत्रियः । अनुपदमन्वेष्टाऽनुपदी ॥ (सुबोधिनी)-इष्टादिभ्य इनिरनेनेत्यर्थे ॥ एभ्य इनिप्रत्ययः स्यात् अनेनेत्यर्थे ॥ अधीतमनेनेति अधीती ॥ हैयङ्गवनिं श्रोत्रियः क्षेत्रियोऽनुपदी इत्यादयो

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372