Book Title: Siddhant Chandrika Purvarddham
Author(s): Ramsharma Pandit
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 309
________________ [ समासप्र० ] टीकाद्वयोपेता। (२९३) सेनो राजा । दृढा सेना यस्योत बहुव्रीहिः। असेना अविद्यमाना सेना इति नपूर्वस्तत्पुरुषः ॥ अथ शेषमाह ॥ कृत्तद्धितसमासैकशेषयङाद्यन्तधातुरूपाः पञ्च वृत्तयः ॥ पञ्चानां वृत्तिरिति पूर्वाचार्यसंज्ञा । वृत्तिलक्षणमाहः॥ परार्थाभिधानं वृत्तिः॥ परस्य शब्दस्य योऽर्थस्तस्याभिधानं शब्दान्तरेण यत्र सा वृत्तिः । यथा राजपुरुष इत्यत्र राजशब्देन वाक्यावस्थायामनुक्तः पुरुषार्थोऽभिधीयते ॥ विग्रहलक्षणमाह ॥ वृत्त्यर्थावबोधकं वाक्यं विग्रहः । स द्विधा । लौकिकोऽलौकिकश्च । परिनिष्ठितत्वात्साधुलौकिकः ॥ प्रयोगानोऽताधुरलौकिकः । यथा । राज्ञः पुरुष इति लालिकाविग्रहः । राजन् अस् पुरुष स् इत्यलौकिकविग्रहः ॥ नित्यसमासलक्षणमाह ॥ अविग्रहो नित्यसमासः ॥ लौकिकविग्रहरहितो नित्यसमासो ज्ञेयः। लोके यस्य विग्रहो न प्रयुज्यते इति भावः । अस्वपदविग्रहो वा । समस्यमानयावत्पदैरघटितः अस्वपदविग्रहः । समासः षड्विध इति प्रायोवादः ॥अव्ययीभावतत्पुरुषद्वन्द्वद्विगुबहुव्रीहिकर्मधारयाधिकारबहिर्भूतस्यापि नाम्नश्च कृतेति विधानात् । तद्व्याख्याने तत्पुरुष इत्युक्तिस्तु प्राचामनुरोधनेति ध्येयम् ॥ पूर्वपदार्थप्रधानोऽव्य. यीभावः ॥ उत्तरपदार्थ वानस्तत्पुरुषः ॥ उभयपदार्थप्रवाना द्वन्द्वः ॥ संख्यापूर्वान्यपदार्थपधानो द्विगुः ॥ अन्यपदार्थप्रधानो बहुव्रीहिः ॥ विशेषणपूर्वः कर्मधारयः उत्तरपदार्थप्रधानः ॥ विशेष्यपूर्वस्तु पूर्वपदार्थप्रधानः ॥ इत्यपि न तु सार्वत्रिकः । सूपप्रति उन्मत्तगङ्गमित्याद्यव्ययीभाव अतिमालादौ तत्पुरुष दन्तोष्ठमित्यादौ द्वन्दे दिवा इत्यादी बहुव्रीहौ चाभावात् ॥ अनेकपदत्वं द्वन्दबहुव्रीह्योरेव । किंच "सिपां सिपा तिपा नाम्ना धातुनाऽथ तिपां तिपा । सिवन्तेनेति विज्ञेयः समासः षड्विधो बुधः ॥ १॥" प्रायोऽभिप्रायः। सिवन्तानां सिवन्तेन यथा । राजपुरुषः ॥ सिबसानां तिपा समासो वेदे एव भवति नान्यत्र । यथा पर्यभूषत् ॥ सिवन्तानां नाना प्रातिपदिकेन यथा कुम्भकारः। अत्र सिबुत्पत्तेः प्रागेवोपपदसमासः॥ सिवन्तानां धातुना यथा । विपि वचिप्रच्छयायतस्तुकटग्रुजुश्रीणामित्यादिनिपातनाद्धातुना समासः । कटप्रूः । अजस्रम् ॥ तिपां तिपा समासो यथा । क्रियासातत्ये आख्यातेन समस्यते । अश्नीत पिवतेत्येवं सततं यत्राभिधीयते सा अश्नीतपिवता । पचतभृज्जता । खादतमोदता ॥ तिपां सिपा यथा । एहीडादयोऽन्याथै समस्यन्ते । एहि ईड इति यस्मिन् कर्मणि तत् एहीडम् । कृन्त विचक्षण इति यस्यां क्रियायां सा कृन्तविचक्षणा ॥ इवेन नित्यसमासो विभक्त्यलोपश्च । जीमूतस्येव ॥ इति सर्वसमासशेषः॥ जात्याख्यायामेकस्मिन्बहुवचनं वा । ब्राह्मणाः पूज्याः ब्राह्मणः पूज्यः। एकत्वे द्वित्वे चास्मदो बहुवचनं वा । वयं ब्रूमः। अहं ब्रवीमि । आवा ब्रूवो वा॥ उपमानानि सामान्यवचनैः सहः समस्यन्ते । घनश्यामः । इह पूर्व पदं तत्सदृशे लाक्षणिकमिति सूचयितुं लौकिकविग्रहे इवशब्दः प्रयुज्यते । उपमानस्य

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372