Book Title: Siddhant Chandrika Purvarddham
Author(s): Ramsharma Pandit
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 322
________________ (३०६) सिद्धान्तचन्द्रिका। [तद्धितप्र०] (सुबोधिनी)-पाण्डुकम्बलादिनिः॥ पाण्डुकम्बलशब्दो राजास्तरणपाण्डुवर्णकम्बलस्य वाचकः। अस्त्यर्थेनैव सिद्ध वचनमणो निवृत्त्यर्थम् । इकार उच्चार• णार्थः॥ तेन दृष्टं साम ॥ तेनेति तृतीयान्तादणादयः दृष्टं सामेत्यर्थे । वासिष्ठं साम । अण् ॥ कलिना दृष्टं साम कालेयम् । एयण ॥ वामदेवेन दृष्टं साम वामदेव्यम् । ण्यः ॥ उशनसा दृष्टं साम निपातनाटिलोपो वा । औशनसम् । औशनम् । अण् ॥ तेन कृतो ग्रन्थः॥ तेनेति तृतीयान्तादणादयः कृतो ग्रन्थ इत्यर्थ । वररुचिना कृतो वाररुचो ग्रन्थः ॥ तेन प्रोक्तम् ॥ तेनेति तृतीयान्तादणादयः प्रोक्तमित्यर्थे । मनुना प्रोक्तो मानवो धर्मः । अण् ॥ तत आगतः ॥ तत इति पञ्चम्यन्तादणादयः आगत इत्यर्थ । माथुरः। अण ॥ ग्राम्यः ॥ तद्वहति ॥ तदिति द्वितीयान्तादणादया वहतीत्यर्थे । धुरं वहति धुर्यः । ण्यः । णितो वेति न वृद्धिः। ‘य्योर्वि हसे' इति दी? न संज्ञापूर्वकत्वेन तस्यानित्यत्वात् । धौरेयः । एयण ।। सर्वा चासौ धूश्चेति ऋपूरित्यप्रत्ययः । 'कर्मधारये' इति पुंवत् । सर्वधुरा तां वहति यस्येत्यालोपः । सर्वधुरीणः । ईनः ॥ एका चासौ धूश्चेति एकधुरा तां वहति एकधुरीणः । ईनः ॥ एकधुरः । अण ॥ शकटं वहति शाकटो गौः । अण ॥ हलं वहति हालिकः । इकः ॥ सीरं वहति सैरिकः । इकः ॥ रथं वहति रथ्यः ण्यः ॥ युगं वहति युग्यः । ण्यः॥ ( तत्त्वदी)-धुर्य इति ॥ संज्ञापूर्वकविधेरनित्यत्वात्क्वचिन्न दीर्घः ॥ एकधुरीण इति ॥ णित्वविकल्पान्न वृद्धिः॥ (मुखपार्श्वतसोर्लोप ईये) मुखतो भवं मुखतीयम् । पार्वतीयम् ॥ (सुबोधिनी )-मुखपार्श्वतसोर्लोप ईये ॥ मुखं च पार्श्व च मुखपार्श्वे मुखपार्श्वयोस्तसौ मुखपार्श्वतसौ तयोः ॥ षष्ठीनिर्दिष्टत्वात्सलोपः। यस्येत्यलोपः । मुखतीयम् ॥ पार्श्वतो भवं पार्श्वतीयम् । णीयः॥ (तत्त्वदी)-मुखपार्थेति ॥ द्वन्द्वान्ते श्रूयमाणत्वात्तसः प्रत्येकं योगः ॥ मुखती. यमिति ॥ षष्ठीनिर्दिष्टस्येति सकारलोपे यस्येति लोपे च रूपसिद्धिः ॥ (देवस्वराजजनपराणां कुक् ईये ) देवकीयम् । स्वकीयम् । राजकीयम् । जनकीयम् । परकीयम् ॥ (सुबोधिनी)-देवस्वराजजनपराणां कुक् ईये ॥ एषां कुछ स्यात् ईये ॥ देवस्येदं देवकीयम् ॥ स्वस्यदं स्वकीयम् ॥ राज्ञ इदं राजकीयम् । नाम्नो नो लोपशिति नलोपे कृते पश्चात् कुक् बोध्यः ॥जनस्येदं जनकीयम् । परस्येदं परकीयम्॥

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372