Book Title: Siddhant Chandrika Purvarddham
Author(s): Ramsharma Pandit
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 323
________________ (३०७) [तद्धितप्र०] टीकाद्वयोपेता। (तत्त्वदी० )-देवस्वेति । देवकीयमिति ॥देवस्येदमिति वाक्यम् ॥राजकीयमिति॥ अत्र नलोपे यत्नः । नाम्नो नो लोपशित्यस्य नान्तस्य नाम्न इति व्याख्यानात् प्रकृते कुको राजान्त्यावयवत्वान्नान्तताभावात् । अतो नो वेत्यत्र वेत्यस्य व्यवस्थितत्वाश्रयणादत्र नलोपः ।। (मध्यान्मः) मध्यमः ॥ ( मुबोधिनी)-मध्यान्मः ॥ अस्मान्मः प्रत्ययः स्यात् भवाद्यर्थे ।। मध्ये भवो मध्यमः॥ (हेमन्तस्य वा तलोपोऽणि.) हैमनम् हैमन्तम् ॥ ( सुबोधिनी ) हेमन्तस्य वा तलोपेऽणि ॥ हेमन्तादण् स्यात् तस्य लोपथ वा ॥ हेमन्ते भवं हैमनं हैमन्तं च ॥ (तत्त्वदी० ) हैमनमिति । हेमन्ते भवमिति विग्रहः ॥ टिलोपस्तूक्तयुक्तरेव न ॥ (चिरपरुत्परारिभ्यस्त्नः ) चिरत्नम् । परुत्नम् ! परारित्नम् । (सुबोधिनी )-चिरपरुत्परारिभ्यस्तनः ॥ एभ्यस्त्नप्रत्ययः स्यात् ॥ चिरशब्दोऽदन्तः ॥ परुदित्यव्ययं पूर्वस्मिन् वत्सरे ॥ परारि पूर्वतरे वत्सरेऽव्ययम् ॥ (अग्रादिपश्चादन्ताड्डिमः ) अग्रिमम् । आदिमम् । पश्चिमम् । अन्तिमम् ॥ (सुबोधिनी )-अनादिपश्चादन्ताड्डिमः ॥ एभ्यो डिमः प्रत्ययः स्यात् ॥ डिवाहिलोपः। अग्रे भवम् अग्रिमम् ॥ आदौ भवम् आदिमम् ॥ पश्चाद्भवं पश्चिमम् ॥ अन्ते भवम् अन्तिमम् ॥ (तत्त्वदी०)- पश्चिममिति ॥ पश्चाद्भवम् । डित्त्वादादित्यस्य लोपः ॥ (हेतुमनुष्येभ्यो वा रूप्यमयटौ) समादागतं समरूप्यम् । सममयम् । समीयम् । देवदत्तरूप्यम् । देवदत्तमयम् । देवदत्तीयम् ॥ (सुबोधिनी )-हेतुमनुष्येभ्यो वा रूप्यमयटौ ॥ हेतुवाचकेभ्यो मनुष्यवाचकेभ्यश्च रूप्यमयटौ वा स्तः॥ ट् ईबर्थः ॥ आगतमित्यर्थे समात् मार्गादागतं समरूप्यम् । सममयम् ॥ पक्षे णीयः। समीयम् ॥ देवदत्तादागतं देवदत्तरूप्यम् । देवदत्तमयम् । देवदत्तीयम् । णीयः ॥ देवदत्तः । अणू ॥ (तत्त्वदी० )-हेतुमनुष्येभ्य इति ॥ हेतुमनुष्यवाचिभ्य इत्यर्थः ॥

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372