Book Title: Siddhant Chandrika Purvarddham
Author(s): Ramsharma Pandit
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 325
________________ [ तद्धितप्र० ] टीकाद्वयोपेता। (३०९) (सुबोधिनी) शक्तियष्टयोरीका प्रहरणे ।। आभ्यामीकण स्यात् ॥ शक्तिः प्रहरणमस्य शाक्तीकः । यष्टिः प्रहरणमस्य याष्टीकः ॥ ( तत्त्वदी० )-शाक्तीक इति ॥ शक्तिः प्रहरणमस्येति विग्रहः ॥ (विंशतित्रिंशद्भ्यां डकको वा) ( सुबोधिनी)-विंशतित्रिंशद्भ्यां डकको वा ॥ तेन क्रीतमित्यर्थे आभ्यां डकको प्रत्ययौ स्तः ॥ असंज्ञायामर्थे डकः ॥ (विशतेस्तिलोपो डिति ) विंशकः । त्रिंशकः । विंशतिकः। त्रिंशत्कः ॥ (सुबोधिनी)-विशतेस्तिलोपो डिति ॥ तिशब्दलोपः ॥ विंशकः । त्रिंशकः । संज्ञायां तु कः । विंशतिकः । त्रिंशत्कः॥ (कर्मण उकञ् ) कर्मणे प्रभवति कार्मुकम् ॥ ( सुबोधिनी)-कर्मण उकञ् ॥ कर्मन्शब्दादुकञ् स्यात् तस्मै प्रभवतीत्यर्थे । समर्थः शक्तः प्रभवतीत्युच्यते ॥ __ (मनोर्जातावपत्ये प्यषणौ) मनोरपत्यं मनुष्यः । मानुषः ॥ जातौ किम् । मानवः । (सुबोधिनी)-मनोर्जासावपत्ये प्यषणौ ॥ मनुशब्दादेतौ स्तः अपत्यत्वे जातो वाच्ये ॥ समुदायार्थो जातिः । मनुष्यः । मानुषः । जातिशब्दावेतौ ॥ (केनेयेकाः) कारकात्क ईन इय इक इत्येते प्रत्यया भवन्ति कर्तरि कमणि चोक्तवक्ष्यमाणेष्वर्थेषु च णितो वा ॥ क्रममधीते क्रमकः । पर्दकः ॥ ग्रामादागतस्तत्र जातो वा ग्रामीणः । सधीचीनः । समीचीनः। तिरश्चीनः । कुलस्यापत्यं कुलीनः । महाकुलीनः। आढयकुलीनः॥ __ (सुबोधिनी)-केनेयेकाः ॥ कश्च ईनश्च इयश्च इकश्च ते केनेयेकाः ॥ क्रममधीते क्रमकः ॥ क्रमपदशिक्षामीमांसाः क्रमादयः। एभ्यः कः। पूर्वस्य हस्वो निपातनात् । शिक्षकः । मीमांसामधीते मीमांसकः ॥ ग्राम भवः ग्रामीणः । ईनः। ग्राम्योऽपि ण्यः ॥ सध्यङ्डव सध्रीचीनः ॥ सम्यङ्ङव समीचीनः ॥ तिर्यवेव तिरश्चीनः । सहाश्वतीति सध्यङ्॥ अञ्चत्यन्तान्नाम्नः स्वार्थे ईनो वा ॥ दिशि न । प्राक् प्राचीनम् । प्रत्यक् प्रतीचीनम् । अवाक् अवाचीनम् । अर्वाक् अर्वाचीनम् ।

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372