Book Title: Siddhant Chandrika Purvarddham
Author(s): Ramsharma Pandit
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 314
________________ (२९८) सिद्धान्तचन्द्रिका। [ तद्धितप्र०] (सुबोधिनी )-ण्यायनणेयण्णीया गर्गनडात्रिस्त्रीपितृष्वस्रादेः ॥ ण्यश्च आयनण् च एयण च णीयश्च ते ण्यायनणेयण्णीयाः । गर्गश्च नडश्च अत्रिस्त्रियौ च पितृष्वसा च एषां समाहारो गर्गनडात्रिस्त्रीपितृष्वसृ। गर्गनडात्रिस्त्रीपितृष्वस आदिर्यस्य स गर्गनडात्रिस्त्रीपितृष्वस्त्रादिस्तस्मात् । द्वन्द्वान्ते श्रूयमाण आदिशब्दः प्रत्येकं सम्बध्यते । स्त्रीशब्देन स्त्रीप्रत्ययस्य ग्रहणान्नादिशब्दयोगः ॥ इह स्वरूपग्रहणं नेष्टम् । अत्र्यादिषु तस्य तु सुग्रहत्वात् ॥ यथाक्रमेण गर्गादिभ्यो ण्योऽपत्येऽर्थे ॥ नडादेरायनण अपत्येऽथै ॥ अध्यादेः स्त्रीप्रत्ययान्ताच्च एयण अपत्येऽर्थे । पितृष्वस्रादेीयोऽपत्येऽर्थे ॥ इह आयनणेयणोरणन्तत्वादीप् । अन्तणकारपाठसामर्थ्यादर्थवद्ग्रहणपरिभाषाया अनित्यत्वात् । अन्यथा ण्यणीयवत् णायनणेयावित्येव ब्रूयादिति ॥ गर्गादिर्यथा । गर्ग वत्स व्याघ्रपाद पुलस्ति बभ्र मण्डु वतण्ड शकल कण्व अगस्त्य (अगस्ति) कुण्डिनी याज्ञवल्क्य पराशर जमदग्नि इत्यादि ॥ नडादिर्यथा । कुञ्ज ब्रध्र शंख शकट हत्यादि ॥ अत्र्यादिर्यथा । अत्रि शुभ्र मृकंडु अश्वाद नातृ विधवा गोवा प्रवाहण पाण्डु इत्यादि । गर्गादिशब्दास्तदपत्ये लाक्षणिकाः । साक्षादपत्ये इव । अनन्तरापत्ये गागरित्युक्तत्वात् । गर्गस्यापत्यमितीजोऽर्थः । गागैरपत्यं गार्ग्यः। वत्सस्यापत्यं वात्स्यः। कतस्यापत्यं कात्यः। वतण्डस्यापत्यं वातण्डयः । अवटस्यापत्यमावत्यः । मण्डूकस्यापत्यं माण्डूक्यः। पूतिमाषस्यापत्यं पौतिमाष्यः । स्त्रियां तु नदादित्वादीप् । हसात्तद्धितयस्येपीति यलोपः। गार्गी । वात्सी । नडादित्वात् स्त्रियामायनणि गाायणी । कात्यायनी । वातण्डी । वातण्डयायनी । माण्डूक्यायनी ॥ अजादित्वादापूप्रत्यये आवट्या । पौतिमाष्या। नडस्यापत्यमितीजोऽर्थः । नाडेरपत्यं नाडायनः । चरस्यापत्यं चारायणः । ण्यान्तानामिअन्तानां च नडादित्वं बोध्यम् । गार्यस्यापत्यं गाायणः। वात्स्यस्याऽपत्यं वात्स्यायनः । दाक्षेरपत्यं दाक्षायणः । अमुष्यापत्यमामुष्यायणः। षष्ठया अलुगत्र । अत्रेरपत्यमात्रेयः । कपरपत्यं कापेयः॥ . ( तत्त्वदी० )-ण्यायनणयण्णीया इति ॥ ण्यश्च आयनण् च एयण च णीयश्च ते । गर्गश्च नडश्व अत्रिश्च स्त्री च पितृष्वसा च एतेषां समाहारस्तदादिर्यस्य स तथा तस्मात् । द्वन्द्वात्पर आदिशब्दः प्रत्येकमभिसंबध्यते । स्त्रीतिप्रत्ययग्रहणान्नादिशब्दयोगः । अत्र नव्याः । आदिशब्दोऽत्र प्रकारवाची न तु ज्यवस्थार्थः । एतदादिगणस्यात्रादर्शनादित्याहुः । तन्मते गर्गादेर्गणाद् ण्य इत्यादिर्वासुदेवोक्तिः प्रत्युत्ता । गर्गादिशब्दाश्च तदपत्ये लाक्षणिकाः तेन गर्गस्यापत्यं गार्गिः। गार्य इत्यत्र गागैरपत्यमित्यर्थों बोध्यः। साक्षादपत्ये तु गार्गिरित्येवेति ॥ ( कल्याण्यादेरिनङ् च ) काल्याणिनयः । कौलटिनेयः ॥

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372