Book Title: Siddhant Chandrika Purvarddham
Author(s): Ramsharma Pandit
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 299
________________ [ समासप्र० ] टीकाद्वयोपेता। (२८३) (सुबोधिनी )-ब्रितः परस्य वा ॥ उश्च आ च तयोः समाहारः वृ । वृ इत यस्य स वित् तस्मात् वितः ॥ उकारेत ऋकारेतश्च परस्य ईप्प्रत्ययस्य ह्रस्वो वा भवति तरादा ॥ विदुषितराष्ट्रवित इती । वसोर्व उरित्युत्वम् । ह्रस्वाभावे तरतमचरडिति पुंवद्भावः । विद्वत्तरा । विदुषीतरेत्यापि कैश्चिदुदाहृतं तन्निर्मूलम् ॥ (तत्त्वदी )-वितः परस्येति ॥ उश्च आ च नौ तावितौ यस्य स तथा तस्मात् ।। (इष्टकेषीकामालानां चिततूलभारिषु इस्वः) इष्टकचितम् । पक्केष्टकचितम् । इषीकतूलम् । मुझेषीकतूलम् । मालभारी । उत्पलमालभारी॥ (सुबोधिनी)-इष्टकेषीकामालानां चिततूलभारिषु द्वस्वः ॥ इष्टकादीनां तदन्तानां च हस्वो भवति चितादिषु ॥ इष्टकाभिश्चितमितीष्टकचितम् । तदन्ते पक्केष्टकचितम् ॥ इषीकाणां तूलमिषीकतूलम् ॥ मालां विति इति मालभारी। कर्तरि णिनिः । हारिधिति पाठान्तरम् ॥ (तत्त्वदी० )-मालभारीति ॥ मालां बिभर्तीति विग्रहः । ताच्छील्ये णिनिः ॥ (कारे सत्यागदस्य मुम् ) सत्यंकारः। अगदंकारः ॥ (सुबोधिनी)-कारे सत्यागदस्य मुम् ॥ सत्यागदयोर्मुम् स्यात् कारे ॥ सत्यंकारः। शपथकरणमित्यर्थः॥ अगदकारा वैद्यः ॥ (तत्त्वदी० )-सत्यकारः इति । समयकरणम् ॥ अगदंकारो वैद्यः ।। (अस्तोश्च ) अस्तुंकारः ॥ सुबोधिनी)-अस्तोश्च ॥ अस्तु इत्यस्य मुम् स्यात् कारे ॥ अस्तु इत्याख्यानप्रतिरूपकमव्ययम् । अस्तुंकारः अभ्युपगम इत्यर्थः ॥ (तत्त्वदी० )-अस्तुंकारोऽभ्युपगमः ॥ अस्त्विति तिबन्तप्रतिरूपकमव्ययम् ॥ (धेनोभव्यायाम् ) धेनुभव्या ॥ (सुबोधिनी )-धेनोव्यायाम् ॥ धेनुशब्दस्य मुम् स्यात् भव्यायां परस्याम् ॥ धेनुश्चासौ भव्या चेति विग्रहः । धेनुंभव्या । भविष्यन्ती धेनुरित्यर्थः । निपातनाद्भविष्यति कर्तरि कृत्प्रत्ययः॥ (तत्त्वदी० ) धेनुभव्येति ॥ धेनुश्चासौ भव्येति विग्रहः । भविष्यन्ती धेनुरित्यर्थः । (लोकस्य पृणे ) लोकंपृणः ।।

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372