Book Title: Siddhant Chandrika Purvarddham
Author(s): Ramsharma Pandit
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 304
________________ (२८८) सिद्धान्तचन्द्रिका। [ समासप्र०] दक्षिणश्चासौ आग्निश्चेति दाक्षणाग्निः। सप्त च ते ऋषयश्च सप्तर्षयः । “दक्षिणाग्निर्हिपत्याहवनीयौ त्रयोऽग्नयः" इत्यमरः ॥ (तत्त्वदी०)-दिकसंख्ये संज्ञायामिति ॥ दिक् च संख्या च दिसंख्ये । दिग्वाचिसंख्यावाचिनावित्यर्थः। कर्मधारयस्तुल्यार्थ इत्यनेनैव सिद्ध नियमार्थमिदम् । संज्ञायामेव नान्यत्रेत्यर्थः ॥ दक्षिणाग्निरिति ॥ दक्षिणदिगवस्थिते वस्तुनि दक्षिणशब्दः । अतो दानादेावृत्ती दिगवस्थिते व्यवस्थाप्यते । अनिशब्दोऽपि चित्रकादेावृत्ती हुताशे व्यवस्थाप्यते । अतो विशेषण विशेष्यभावात्कर्मधारयः ॥ संज्ञायां किम् । पञ्च फलानि ॥ दिकसंख्ये किम् । शूर्पणखा ॥ दक्षिणोऽग्निरित्यादौ वाक्ये संज्ञानवगमान्नित्यसमासत्वम् । अविग्रहस्य नित्यसमासत्वात् । न विग्रहो यस्य लोके प्रयुज्यत इति शेषः। अन्यथा दक्षिणोऽग्निरुन्मत्ता गङ्गा यत्रेत्यादिविग्रहस्टर सर्वत्र दर्शनादविग्रहत्वासंभव एव स्यात् । अयमत्र संग्रहः ॥ कृत्तद्धितसमासैकशेषयङाद्यन्तधातुरूपाः पञ्च वृत्तयः । परार्थाभिधानं वृत्तिः । वृत्त्यर्थावबोधकं वाक्यं विग्रहः । स द्विधा। लौकिकोऽलौकिकश्च । तल्लक्षणं चोक्तमेव । समासोऽपि द्विविधः । नित्योऽनित्यश्चेति । नित्योऽपि द्विविधः । अविग्रहोऽस्वपदविग्रहश्च । न स्वस्य समासस्य पदविग्रहो यत्र सः । समासः षड्विध इति प्रायोवादः । द्विग्वव्ययीभावतत्पुरुषद्वन्द्वबहुव्रीहिकर्मधारयभिन्नस्यापि नाम्नश्च कृतेति विधानात् । एतेन नाम्नश्च कृता समास इति सूत्र समासग्रहणं तत्पुरुषपरं समासस्य पूर्वेणैव विधानात् । अमादौ तत्पुरुष इत्यतो मण्डूकप्लुत्याऽनुवृत्तति वासुदेवोक्तिः परास्ता ॥ तथा पूर्वपदार्थप्रधानोऽव्ययीभावः । उत्तरपदार्थप्रधानस्तत्पुरुषः । अन्यपदार्थप्रधानो बहुव्रीहिः । उभयपदार्थप्रधानो द्वन्द्वः । विशेष्यपूर्वः कर्मधारयः पूर्वपदार्थप्रधानः । विशेषणपूर्वस्तूत्तरपदार्थप्रधानः। द्विगुरन्यपदार्थप्रधान इत्यपि प्राचां प्रवादः प्रायोऽभिप्राय सूचयति ॥ उन्मत्तगङ्गमित्याद्यव्ययीभावे अतिमालादौ तत्पुरुषे द्वित्रा इत्यादिबहुव्रीहौ दन्तोष्ठमित्यादिद्वन्द्वे चाभावात् । अनेकपदत्वं द्वन्द्वबहुवीह्योरेव । ऐकपद्यमेकविभक्तिकत्वं च समासप्रयोजनं पूर्वनिपातः समासान्तप्रत्ययादिश्च प्रयोजनम् ॥ (द्वन्द्वतत्पुरुषयोः परपदस्यैव लिङ्गम् ) कुक्कुटमयूर्याविमे। मयूरीकुक्कुटाविमौ । अर्द्धपिप्पलीयम् ॥ (सुबोधिनी)-द्वन्द्वतत्पुरुषयोः परपदस्यैव लिङ्गम् ॥ इतरेतरयोगद्वन्द्वोन गृह्यते न समाहारद्वन्दः॥ एकत्वे द्विगुद्वन्द्वावित्युक्तत्वात् । द्वन्द्वतत्पुरुषयोरिति संव. न्धे षष्ठी । एतयोः परपदतुल्यं लिङ्गं भवति ॥ कुक्कुटश्च मयूरी च कुक्कुटमयूयौँ । इमे इति स्त्रीलिङ्गनिर्देशः॥ मयूरी च कुक्कुटश्च मयूरीकुक्कुटौ । इमाविति पुंलिंगनिर्देशः ॥ पिप्पल्या अर्द्धमित्यर्धपिप्पली । इयमिति स्त्रीलिंगनिर्देशः। (द्विगुप्राप्तापनालंपूर्वप्रादिसमासे न ) पश्चकपालः । प्राप्तो

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372