Book Title: Siddhant Chandrika Purvarddham
Author(s): Ramsharma Pandit
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 305
________________ [ समासप्र० ] टीकाद्वयोपेता। (२८९) जीविकां प्राप्तजीविकः । आपन्नजीविकः । अलं कुमार्यै अलंकुमारिः । निष्कौशाम्बिः॥ __ (सुबोधिनी )-द्विगुप्राप्तापन्नालंपूर्वप्रादिसमासे न ॥ द्विगुसमासे प्राप्तापन्नालंपूर्वसमासे प्रादिसमासे च परपदतुल्यं लिंगं न भवति ॥ पञ्चमु कपालेषु संस्कृतः। तद्धिताथें द्विगुः । संस्कृतार्थेऽण् । तस्य लुक् च । तद्धितार्थे द्विगुर्विशेष्यानिघ्नः। पुरो दाश्यते इति । 'दाश दाने' कर्मणि घञ् । निपातनादस्य डः । पुरोडाशः ॥ प्राप्तजीवकः ॥ आपन्नजीविकः । अलंकुमारिः। तत्पुरुषा एते । 'अन्यार्थ' इति ह्रस्वः ॥ प्रादिसमासो यथा । प्रादयो गताद्यर्थे प्रथमया । प्रगत आचार्यः प्राचार्यः। दुराचारः पुरुषो दुष्पुरुषः। प्रगतः पितामहः प्रपितामह इत्यादि ॥ अत्यादयः क्रान्ताद्यर्थे द्वितीयया । अतिक्रान्तो मालाम् अतिमालः। 'अन्याथें' इति ह्रस्वः ॥ अभिगतो मुखम् अभिमुखः । उद्गतो वेलाम् उद्देलः । प्रतिगतोऽसं प्रत्यक्ष इत्यादि। अवादयः कुष्टाद्यर्थे तृतीयया । अवक्रुष्टः कोकिलया अवकोकिलः । 'अन्यार्थे' इति ह्रस्वः । परिणद्धो वीरुधापरिवीरुत् । पर्यादयो ग्लानाद्ययें चतुर्थ्या। परिग्लानोऽध्ययनाय पर्यध्ययनः । गुरुकुलवासादिना परिग्लानोऽध्ययनायेत्यर्थः ॥ निरादयः क्रान्ताद्यर्थे पञ्चम्या । निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः । 'अन्यार्थ' इति ह्रस्वः । उत्कान्ता कुलातु उत्कुला । निर्गतमगुलिभ्यो निरगुलम् । अस्वपदविग्रहेण नित्यसमासा एते ॥ इति प्रादिसमासाः॥ . ( तत्त्वदी०)-निष्कौशाम्बिरिति ॥ कौशाम्व्या निर्गत इति विग्रहः ॥ (अश्ववडवयोर्द्वन्द्वः पूर्ववल्लिङ्गः ) अश्ववडवान् ॥ ( सुबोधिनी )-अश्ववडवयोर्द्वन्द्वः पूर्ववल्लिङ्गः ॥ सूत्रे द्विवचनमविवक्षितम् । बहुत्वेशप (लिंगस्य दर्शनात् ॥ अश्वश्च वडवा च अश्ववडवौ । निपातनादापो निवृत्तिः । बहुत्वे पुंलिंगं दर्शयति । अश्ववडवान् । अश्ववडवैः । विभाषा वृक्षेति पक्षे समाहारद्वन्द्वेऽश्ववडवम् । क्रियाव्ययविशेषणानां क्लीवत्वमेकवचनं च । क्रियाविशेषणानामव्ययविशेषणानां चैकवचनं क्लीवत्वं च भवति ॥ (राबाह्नाहान्ताः पुंस्येव ) अहोरात्रः। पूर्वरात्रः । पूर्वाह्नः । व्यह्नः ॥ (सुबोधिनी)-रात्राहाहान्ताः पुंस्येव ॥ परवलिंगतापवादोऽप्ययं परत्वात्समाहारनपुंसकतां बाधते ॥ अप्रत्ययान्तो रात्रिशब्दष्टप्रत्ययान्तोऽहन्शब्दः । एतदन्ता द्वन्द्वद्विगुतत्पुरुषकर्मधारयाः पुंल्लिंगे एव भवन्ति । अहश्च रात्रिश्च अन इति नस्य सः। अहोरात्रः । अहःपूर्वाद्रात्रिशब्दादः समाहारे इत्यप्रत्ययः । रात्रेः पूर्वभागः

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372