Book Title: Siddhant Chandrika Purvarddham
Author(s): Ramsharma Pandit
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 275
________________ [ समासप्र० ] टीकाद्वयोपेता। (२५९) णात् द्विगोलुंगनपत्ये । द्विगोनिमित्तस्याऽनपत्यार्थस्य स्वरादेस्तद्धितस्य लुग्वक्तव्य इत्यर्थो बोध्यः। पञ्चकपालः॥ (तत्त्वदी०)-संख्यापूर्वी द्विगुरिति ॥ संख्या पूर्वा यस्य सः । संख्याशब्देन च तद्वाचकपदमुच्यते । तथा च संख्यावाचकपदयोर्योऽन्वयः स समाससंज्ञो द्विगुसंज्ञश्चेत्यर्थः ॥ समाहारेऽत ईबित्यस्य वक्ष्यमाणत्वात् समाहारे एवायमिष्यते तद्धितार्थे च । यत्तत्तरपदे वेत्युक्त्वा पञ्च गावो धनमस्येति विगृह्य पञ्चगवधन इति सिद्धये वासुदेवादिभिः पाणिनीयानुसारणोत्तरपदविषयत्वमप्यस्योक्तम् । तदिहानुपयोगीत्युपक्षितम् । तत्र तस्य स्वरार्थत्वात् स्वरस्यात्राव्युत्पादनात् । पञ्चानां गवां समाहारः पञ्चगवम् । टाडका इत्यः । एतद्धनमस्येति द्विगुगर्भबहुव्रीहिणा गतार्थत्वाच्च । अत्राहुः । द्वयोः पुत्रो द्विपुत्रः । द्वौ च दश च द्वादश । द्वौ पुत्रौ यस्य स द्विपुत्र इत्यादौ परत्वात्तत्पुरुषद्वन्द्वबहुव्रीहिसंज्ञा भवन्तीति । अत्रेदमवधेयम् । द्विगुसमासस्य समाहारतद्धितार्थयोरेव विधानादत्र तदभावादेवाप्राप्तौ किं परत्वानुधावनक्लेशेनेति विभाव्यम् ॥ पश्चकपाल इति ॥ पञ्चसु कपालेषु संस्कृतः पञ्चकपालः पुरोडाशः ॥ एवं चतुरो वेदानधीते चतुर्वेदः । अत्र संस्कृतादिष्वणादिः। तस्य लुग्बहुत्वे क्वचिदिति लुक् । यद्वा तद्धितार्थस्य द्विगुनैवोक्तत्वात्तद्धितार्थयोरप्रयोगः ॥ ( समाहारेऽत ईप् द्विगुः ) समाहारेऽथ द्विगुः समासो भवति ततोऽकारान्तादीप् प्रत्ययः ॥ दशानां ग्रामाणां समाहारो दशयामी । पञ्चानि ॥ (सुबोधिनी)-समाहारेऽत ईयू द्विगुः ॥ समाहरणं समाहारः। भावे घञ् । समाहारे राशीकरणेऽर्थे द्विगुः समासो भवति । अदन्तात् द्विगोः स्त्रियामीप् ॥ दशानां ग्रामाणां समाहारा दशग्रामी। यस्येत्यलोपः ॥ ननु विप्रकीर्णानामेकत्र राशीकरणं समाहारार्थः। स च दशानां ग्रामाणां न संभवति । उच्यते । एकक्रियायां समन्वयात् बुद्धया राशीकरणस्य संभवात् । उदाहरणम् । पञ्च अग्नयः समाहृता इति पञ्चाग्नि ।। (तत्त्वदी०)-समाहारेऽत ईप द्विगुरिति ॥ स औत्तराधर्य राशीकरणं समाहारः॥ दशग्रामीति ॥ ननु विप्रकीर्णानामेकत्र राशीकरणं समाहारार्थः । स च ग्रामाणां न संभतीति चेत् एकक्रियायां समन्वयाद् बुद्धया राशीकरणसंभवात् ॥ (कचिन ) पञ्चपात्रम् । चतुर्युगम् । त्रिभुवनम् ॥ आबन्ताहा ॥ पञ्चखट्टी-पञ्चखटम् ॥ (सुबोधिनी -क्वचिन्न ॥ क्वचिददन्तात् द्विगोरीप् न स्यात् ॥ पञ्चानां पात्राणां समाहारः पञ्चपात्रम् ॥ चतुणी युगानां समाहारः चतुर्युगम् ॥ त्रयाणां भुवनानां समाहारः त्रिभुवनम् ॥ समासान्तानग्रे वक्ष्यामि ॥ इति द्विगुः ।।

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372