Book Title: Siddhant Chandrika Purvarddham
Author(s): Ramsharma Pandit
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 288
________________ (२७२) सिद्धान्तचन्द्रिका। [ समासप०] द्विभूमः । त्रिभूमः प्रासादः। बहुव्रीहावेव ॥ संख्यामा नदीगोदावरीभ्यामः । पञ्चनदम् । सप्तगोदावरम् । अव्ययीभावे एतौ॥ नाभेरः । पद्म नामावस्येति पद्माकारा नाभिरस्येति वा पद्मनाभः ॥ अचक्षुः पर्यायादक्ष्णोऽप्रत्ययः। गवां किरणानामक्षि रन्ध्रमिवेति गवाक्षः ॥ ब्रह्महस्तिपल्यराजभ्यो वर्चसोऽप्रत्ययः । ब्रह्मवर्चसम् । हस्तिवर्चसम् । पलं मांसमर्हतीति पल्यो मांसभोजी पल्यवर्चसम् । राजवर्चसम् । षष्ठीतत्पुरुषोऽत्र ॥ अवसमन्धेभ्यस्तमसोऽप्रत्ययः। अवहीनं तम इति अवतमसम् । समन्तात् तम इति संतमसम् । अन्धयतीति अन्धम् । 'अन्ध दृष्टयुपघाते' चुरादिरस्मात्पचाद्यप्रत्ययः । अन्धं गाढं तम इत्यन्धतमसम् ।। श्वस्शब्दावसीय श्रेयोभ्यामः । वसुशब्दः प्रशस्तवाची तस्मादीयसुप्रत्यये वसीय इति । श्वस्शब्दस्तु कालवाच्यप्यत्राशीविषयताद्योतकोऽस्ति । श्वोवसीयसम् । श्वःश्रेयसम् । कर्मधारयोऽत्र ॥ अन्वव. तप्तेभ्यो रहाशब्दादः। रह इत्यनेनाऽप्रकाशमुच्यते । अनुगतं रह इत्यनुरहसम् । अवहीनं रह इत्यवरहसम् । अनुगतं रहोऽस्मिन्नित्यादि बहुव्रीहिर्वा । तप्तं च तद रहश्चति तप्तरहसम् । परेणानधिगम्यमित्यर्थः ॥ प्रतेरुरस्शब्दादः । उरसि इति प्रत्युरसम् । सप्तम्यर्थे अव्ययीभावोऽयम् ॥ अप्रत्ययान्तमनुगवं दीर्घत्वे निपात्यते । अनुगवं यानम् । गोदैर्घ्यसदृशदैोपलक्षितमित्यर्थः ॥ उपसर्गादध्वशब्दादः। प्रगतोऽध्यानामति प्राध्वो रथः ॥ अचतुरविचतुरसुचतुरात्रिचतुरउपचतुरस्त्रीपुंसधेन्वनडुहऋ. क्सामवाङ्मनसाऽसिभुवदारगर्विष्ठीवपदष्ठीवनक्तंदिवरात्रिंदिवाऽहर्दिवसरजसनिःश्रेय सपुरुषायुषद्वयायुषत्र्यायुषऋग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः । अप्रत्ययान्ता निपात्यन्ते । अविद्यमानानि चत्वार्यस्येति अचतुरः । विचतुरः। सुचतुरः । त्रयश्चत्वारो वेति त्रिचतुराः । चतुणी समीपे ये सन्ति ते उपचतुराः । एते पञ्च बहवीहयः। तेन तत्पुरुषे अचत्वारो विचत्वार इत्येवं भवतीति भावः ॥ स्त्रीपुसौ ॥धेन्वनडुहौ ॥ ऋक्सामे । वाङ्मनसे । अक्षिणी च भ्रुवा च अक्षिध्रुवम् । प्राण्यङ्गत्वादेकवद्भावः । दाराश्च गावश्च दारगवम् । ऊरू च अष्ठीवन्तौ च उर्वष्ठीवम् । निपातनाहिलोपः । “जानूरुपष्ठिीवदस्त्रियाम्” इति “ सक्थि क्लीवे पुमानूरुः" इति चामरः ॥ पदष्ठीवम् । निपातनात् पादस्य पद् । प्राण्यंगत्वादेकवदुभयत्र । नक्तं च दिवा च नक्तंदिवम् । रात्रौ च दिवा च रात्रिंदिवम् । रात्रेन्तित्वं निपातनात । अहनि च दिवा चेति अहर्दिवम् । वीप्तायां द्वन्द्वो निपात्यते । अहन्यहनीत्यर्थः । एते एकादश द्वन्द्वाः॥ रजः अपि अपरित्यज्येति सरजसम् । साकल्येऽव्ययीभावोऽयम् । बहुव्रीहौ तु रजप्ता सह वर्तते इति सरजसं पङ्कजमिति । निश्चितं श्रेय इति निःश्रेयसम् । तत्पुरुष एवायम् । बहुव्रीहौ तु न। निश्चितं श्रेयो यनेति निःश्रेयान् पुरुषः। पुरुषस्यायुः पुरुषायुषम् । तत्पुरुषोऽयम् । व्यायुषम् । व्यायुषम् । एतौ द्विगू । ऋग्यजुषम । द्वन्दोऽयम् । जातोक्षः । महोक्षः । वृद्धोक्षः । एते त्रयः

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372