Book Title: Shreechandra Charitra Author(s): Purvacharya Publisher: Jinharisagarsuri Jain Gyanbhandar View full book textPage 6
________________ [ २ ] स्त्रयं विष्णुः सूर्यः सुरपतिरथो सिंह इति किं गुणैर्नानाप्येषां हरिरिति जनैस्तर्कित-पदम् । विभात्येवं येषां स्फुरदुरु-यशोराशिरभितो नमस्तेभ्यः श्रीमज्जिनहरि - गुरुभ्यो विनयतः ||५|| पुरे रोहीणाख्ये जनक - जननी-हर्ष - बहुलं, महाज्ञाते वंशे जननमिह येषां समभवत् । जगज्जातं सर्वं तदनु वत चित्रं सुखमय, नमस्तेभ्यः श्रीमज्जिनहरि-गुरुभ्यो विनयतः ॥६॥ सुखाम्भोधि - श्रीमत्सुगुरु--भगवत्पूज्य-पदगा उक गृहीत्वा प्रव्रज्यां प्रवचन- सुधास्वाद- सुभगाः । प्रसत्तेः पूज्य- श्रीछगन-सुगुरोर्ये जनमता, नमस्तेभ्यः श्रीमज्जिनहरि-गुरुभ्यो विनयतः ॥७॥ महाराजस्थाने सुजन - बहुले गुर्जरवरे सुराष्ट्रे बङ्गेऽङ्गे जनपद - विहारं विदधताम् । यशोगाथा गीता सुकवि - विबुधैः प्राप्त सुवृषै नमस्ते यः श्रीमज्जिनहरि-गुरुभ्यो विनयतः ||८|| ( शार्दूलविक्रीडितम् ) इत्थं षट् ख ख युग्म सम्मित पदे वर्षे सुपौषेऽसि तेऽ ष्टम्यां श्री गुरवः समाधि - सहिताः स्वर्गं गतास्ते मम । तीर्थे श्रीफलवृद्धि - पार्श्व - सुपुरे विद्यालय -स्थापकाः साहाय्यं कलयन्तु साम्प्रत मलं नित्यं कवीन्द्र - स्तुताः ॥६॥Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 502