Book Title: Shreechandra Charitra Author(s): Purvacharya Publisher: Jinharisagarsuri Jain Gyanbhandar View full book textPage 5
________________ प्रातः स्मरणीय सर्वतन्त्र - स्वतन्त्र जैनाचार्य * श्रीमज्जिन-हरिसागर सूरीश्वर सद्गुरु-वन्दनम् (शिखरिणी वृत्तम् ) विनिर्धूयाज्ञानं निज- गुणमपि ज्ञानमतुलं वितीर्यात्म-ज्योतिर्जगति जनतायायुपकृतम् । सदा यः संसाराम्बुनिधि - तरणोपाय- पटुभि नमस्तेभ्यः श्रीमज्जिनहरिगुरुभ्यो विनयतः ॥ १ ॥ हृतं यैर्मिथ्यात्वं स्फुट - जिनमतोद्बोध-विधिना, कृतं कल्याणं च स्व पर विषयि प्रौढ - चरितैः । प्रशान्त-स्वान्तत्वादपगतभया ये ह्य् भवतो नमस्तेभ्यः श्रीमज्जिनहरिगुरुभ्यो विनयतः ॥२॥ कलङ्की नो चन्द्रः प्रखरतरतापो नहि रविः न वा चिन्तारत्नं नदुपलमिहैधः सुरतरुः । अहो ! यायद्येषामुपमिति पदं नो कथमतो नमस्तेभ्यः श्रीमज्जिनहरि - गुरुभ्यो विनयतः ॥ ३॥ अपि ध्वान्त-ध्वंसे सुविहित- लसद्वत्ति-विशदाः, स्थिरा निर्धूमा ये प्रकृति - मधुरस्नेह-सहिताः । प्रकाशं लोकानां सुगुरु-कुलदीपा विदधतो, नमस्तेभ्यः श्रीमज्जिनहरि - गुरुभ्यो विनयतः ॥४॥Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 502