________________
प्रातः स्मरणीय सर्वतन्त्र - स्वतन्त्र जैनाचार्य * श्रीमज्जिन-हरिसागर सूरीश्वर सद्गुरु-वन्दनम्
(शिखरिणी वृत्तम् )
विनिर्धूयाज्ञानं निज- गुणमपि ज्ञानमतुलं वितीर्यात्म-ज्योतिर्जगति जनतायायुपकृतम् । सदा यः संसाराम्बुनिधि - तरणोपाय- पटुभि
नमस्तेभ्यः श्रीमज्जिनहरिगुरुभ्यो विनयतः ॥ १ ॥ हृतं यैर्मिथ्यात्वं स्फुट - जिनमतोद्बोध-विधिना,
कृतं कल्याणं च स्व पर विषयि प्रौढ - चरितैः । प्रशान्त-स्वान्तत्वादपगतभया ये ह्य् भवतो
नमस्तेभ्यः श्रीमज्जिनहरिगुरुभ्यो विनयतः ॥२॥ कलङ्की नो चन्द्रः प्रखरतरतापो नहि रविः
न वा चिन्तारत्नं नदुपलमिहैधः सुरतरुः । अहो ! यायद्येषामुपमिति पदं नो कथमतो
नमस्तेभ्यः श्रीमज्जिनहरि - गुरुभ्यो विनयतः ॥ ३॥ अपि ध्वान्त-ध्वंसे सुविहित- लसद्वत्ति-विशदाः,
स्थिरा निर्धूमा ये प्रकृति - मधुरस्नेह-सहिताः । प्रकाशं लोकानां सुगुरु-कुलदीपा विदधतो,
नमस्तेभ्यः श्रीमज्जिनहरि - गुरुभ्यो विनयतः ॥४॥