Book Title: Shastratattvanirnay
Author(s): Nilkanth
Publisher: Scindia Oriental Institute

View full book text
Previous | Next

Page 50
________________ ईषत्परिचयः . संलग्नाङ्ग्लभूमिकातः स्फुटीभवेद्यद् ‘गोरे' इत्याख्यमहाराष्ट्रीयचित्पावनब्राह्मणकुलोत्पन्नो नीलकण्ठशास्त्री प्रकाश्यमानमिमं शास्त्रतत्त्वविनिर्णयं काश्यां १७६६ मिते शकाब्दे प्रणिनाय । आङ्ग्लकम्पिन्याम्तदानीन्तनभारतशासनसेवातन्त्रेऽनेकोच्चपदभाजा जॉन म्यूर नाम्ना विदुषा गीर्वाणभाषायां रचितस्य प्राचीनभारतीयधर्माचारदर्शनादिखण्डनखष्टीयधर्मतन्त्रमण्डनपरम्य मतपरीक्षा-संज्ञकस्य पद्यबद्धपञ्चषाध्यायात्मकस्य ग्रन्थस्य निराकरणरूपोऽयं शास्त्रतत्त्वविनिर्णयः । अतोऽस्मिन् प्राचीनभारतीयमतस्य मण्डनं वृष्टीयमतस्य खण्डनं च समीचीनतया विहितं दृश्यते । ___ हन्त ! ग्रन्थकृनीलकण्ठशास्त्री प्राक् प्राचीनभारतीयसंस्कृतम्तीव्रमभिमानं बिभ्रत्स्वयं शास्त्रसंमताचारसंपन्नोऽपि ग्रन्थस्यास्य रचनायाः पश्चात् त्रिचतुरवत्सराभ्यन्तरेऽवधावज्ञातस्पष्टकारणक्रमं स्वमतपरिवर्तनं विदधे, वृष्टीयधर्मदीक्षामपि स्वयं जग्राह च। तत आरभ्य खष्टीयधमाचार्यादिपदान्यवलम्ब्य तेन स्वजीवनस्यावशिष्टानि सप्तचत्वारिंशद वर्षाणि प्राचीनभारतीयधर्मे कुठाराघातित्वेन वृष्टीयधर्मप्रचारणे व्यतीतानि। तदनुषङ्गेणानेके ग्रन्थाः षड्दर्शनदर्पणादिसंज्ञका नवपरिगृहीतमतमण्डनपरा भारतीमाहाराष्ट्रयाङ्ग्लभाषासु तेन लिखिताः प्रकाशिताश्च । जन्मनोऽनन्तरं जनकेनैव परित्यक्तजननहेतुत्वादनाथायमानस्यास्य शास्त्रतत्त्वविनिर्णयस्य मौलिकं वैशिष्ट्यं प्रागेव नष्टप्रायमिति स्वीकृतेऽप्यस्य वैदग्धिकमाध्यात्मिकमैतिहासिकं च महत्त्वमिदानीमपि सर्वथावशिष्यत एव । ग्रन्थकृतो मतपरिवर्तनात् प्राग्भवं प्राचीनसंस्कृतिसंस्कृतं भारतीयं हृदयं ग्रन्थेऽस्मिन् सर्वत्र सुसंगततया विहरमाणं दृश्यते । एतत्समालोचनेन ग्रन्थकारस्याकस्मिकस्य मतपरिवर्तनस्य वास्तविक मनोविकासवैज्ञानिकानुमोदितं कारणमपि कदाचिदुपलभ्येत । एतदादिदृष्ट्यास्य प्रकाशनमङ्गीकृतं संपादितं च जिज्ञासूनामुपयोगार्थम् । ग्रन्थकारस्यावान्तरवृत्तान्तकथनं तत्कालिकदेशपरिस्थितेरीषदिग्दर्शनं चाङ्ग्लभूमिकायां संक्षेपेण विहितमिति सैव जिज्ञासुभिरवलोकनीया। इति शम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140