Book Title: Shastratattvanirnay
Author(s): Nilkanth
Publisher: Scindia Oriental Institute

View full book text
Previous | Next

Page 129
________________ ७८ शास्त्रतत्त्वविनिर्णयः [ अध्यायः ६ उ. मत्सृष्टषु भविष्यन्ति खल्वेते दोषशालिनः । ततोऽतिदुःखिनश्चेति जानात्येव किलेश्वरः ॥१०६॥ इति जानन्नपीशस्तान् सृजत्येवेति वल्गताम्। अनपोह्या व्यमनिता दुष्टोत्पादकतापि च ॥१.७॥ सदोषान्यदि नास्राक्षीद्भाविदोषांस्तथापि नन्। जानन्नपि यतोऽस्राक्षीद् दुष्टानेव ततोऽसृजत्॥१०८॥ अजानन्नस्वतन्त्रश्च पिता पुत्रान्सृजन्नपि । कालेन तेषां दुष्टत्वे न स दुष्यति तावता ॥१०५॥ स्वतन्त्रोऽप्येष भगवान् भविष्यदोषशालिताम्। नृणां ज्ञात्वापि तान्कुर्वन् दुष्टोत्पादक एव सः॥११॥ इममथ सृजाम्यस्माद्दोषोऽपि भविता महान् । इति जानन्नपि स्रष्टा दुष्टस्रष्टा कथं न सः ॥१११॥ ईशः शर्मेच्छया जीवान्सृजतीति तु वादिनः। मोघेच्छत्वमथाज्ञत्वं कल्पयन्ति परात्मनि ॥११२॥ किं च शुद्धानेव नरान्यधुत्पादयतीश्वरः । शुद्धानां दुष्टता हन्त कथं कालेन जायते ॥११३॥ नरास्तबुद्धयश्चैव शुद्धा एव कृता यदि । कथं दुष्यन्ति कालेन धीश्व पापे प्रवर्तते ॥११४॥ यदि शुद्धधियां पापरतिः कालेन जायते । स्वर्गता अपि कालेन भजेयुर्दुष्टतां तदा ॥११५॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140