Book Title: Shastratattvanirnay
Author(s): Nilkanth
Publisher: Scindia Oriental Institute

View full book text
Previous | Next

Page 127
________________ शास्त्रतत्वविनिर्णयः [ अध्यायः ६ उ. भवन्मतं च जीवांहोदण्डं ख़ष्टोऽग्रहीत्स्वयम्। तस्मिन्विश्वासमात्रेण मुच्यन्ते पातकादिति ॥ ८६ ॥ ततः खष्टे सुविश्वस्य केचित्पातकलोलुपाः । कुर्युः पापमसौ दोषः प्रत्युतास्ति भवन्मते ॥ ८७ ॥ सर्वशुद्धतमं तस्मादिदं वेदान्तदर्शनम् । दोषलेशोऽपि नेहास्ति किं त्वग्राह्यमसद्धियाम्॥ ८८ ॥ नित्यशुद्धो नित्यबुद्धो नित्यमुक्तश्च वै विभुः। अकामोऽव्यसनी चैव वेदान्तेष्वेव कथ्यते ॥ ८९ ॥ किं चात्र विषये किञ्चिदन्यदप्युच्यते वचः । यथा वेदान्तनैर्मल्यं दोषश्वास्ति मतान्तरे ॥९० ॥ दोषदुःखयुताञ्जीवान् स्वोपभोगार्थमीश्वरः । तेषां दुःखान्यगणयन् सृजतीति भवन्मतम् ॥ ९१॥ स्वैकांशेन तथा भूत्वा क्रीडतीति मतं तु नः। भवन्मतान्मतेऽस्माकं विषयेऽस्मिन्न गौणता ॥ ९२ ॥ उत्पादको यश्चोराणां स्वयं चोरश्च यो भवेत् । किं तारतम्यमुभयोर्विचारे सति सिध्यति ॥ ९३ ॥ किं तु युष्मन्मते सत्यं दुःखं दोषाश्च वै यतः। दुष्टोत्पादकता सत्या विभौ क्लप्ता भवन्मते ॥ ९४ ॥ अस्माकं तु मते दुःखं दोषाश्च भ्रान्तिजा यतः। भ्रान्तदृष्टयैव ते सत्या ब्रह्मदृष्टया मृषैव हि ॥ ९५॥ १ 'ईशो' इति प्राक्तनः पश्चानिरस्तश्च पाठः आ पुस्तके. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140