Book Title: Shastratattvanirnay
Author(s): Nilkanth
Publisher: Scindia Oriental Institute

View full book text
Previous | Next

Page 135
________________ ८४ शास्त्रतत्त्वविनिर्णयः [ अध्यायः ६ उ. नृविजातीयरूपस्य नृविजातीयसंविदः । अप्रतयकृते रूपं सहसा ज्ञायतां कथम् ॥ १६४॥ अत एकान्तभावेन जगतां पतिरच्युतः । उपास्यः कीर्तनीयश्च स यच्छत्यात्मसंविदम् ॥१६५॥ नन्वेवं यदि वेदान्तशास्त्रमेवास्ति सत्तमम् । तद्विरुडानि काणादसाङ्ख्यादीनि न सन्ति किम्॥१६६॥ मैवम्मन्दानां तत्त्वबोधाय शाखादिभिरिवोडुराट् । बहुप्रकोररीशोऽपि साङ्ख्यादिभिरुदीर्यते॥१६७ ॥ शुद्धं भगवतो रूपमाह वेदान्तदर्शनम् । न तावता विरोधोऽस्ति प्रागेवैतन्निरूपितम् ॥ १६८॥ साक्षात्तु प्रापकोऽस्त्येष मार्गः शुद्धाधिकारिणाम् । तद्वारा प्रापकास्त्वन्ये मार्गा मन्दाधिकारिणाम् ॥१६९॥ तस्माच्छास्त्रीयविषयानग्राह्यानल्पया धिया। न जातु दूषयेत्प्राज्ञः स्वस्याज्ञानं तु तर्कयेत् ॥१७॥ यथार्थभगवद्पबोधकं दृढहेतुमत् । गम्भीरं च प्रसन्नं च शास्त्रमस्माकमेव हि ॥१७१॥ दोषान्वदन्तु वा केचित् स्तुवन्तु यदि वापरे । अस्माकं तु दृढा भक्तिर्जायते वैदिके मते ॥१७२॥ वेदानां भारतादेश्च वाचः प्रागल्भ्यभूषणाः । विभान्ति मानसेऽस्माकं श्रद्धाया जन्मभूमयः ॥ १७३॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140