Book Title: Shastratattvanirnay
Author(s): Nilkanth
Publisher: Scindia Oriental Institute

View full book text
Previous | Next

Page 136
________________ अध्यायः ६ उ. ] शास्त्रतत्त्वविनिर्णयः ८५ 1 ॥ १७६॥ अहो मानवशास्त्रादेर्भारतादेरतथैव च वाचां प्रागल्भ्यमस्माकं हृदयान्नापसर्पति ॥ १७४॥ पठद्भिर्मानवं शास्त्रं भारतादिकमेव वा I पुरः श्वःश्रेयसस्याध्वा मूर्तिमानिव लक्ष्यते ॥ १७५॥ भारतादिवचोभानुः समुदेति यदा तदा स्वत एव विलीयन्ते कुतर्कतमसां गणाः दृश्यन्ते बहवो ग्रन्था बह्वलङ्कारमिश्रिताः । तेभ्योऽपि कोऽपि महिमा भारतादेर्विशिष्यते ॥ १७७॥ यथा यथा भवद्भिश्च प्रोच्यते तत्र दूषणम् । गाम्भीर्यनिश्चयद्वारा भूयः श्रद्धा विवर्धते ॥ १७८ ॥ हन्तास्मदीयं शास्त्रं ये त्यजन्ति लघुदर्शनाः । दोषाभासाकुलहृदस्तेभ्यः खिद्याम्यहं भृशम् ॥ १७९ ॥ गूढतत्त्वस्य शास्त्रस्य कस्तत्त्वज्ञोऽस्त्यनीश्वरः । अहो साहस मस्त्येतत्तत्र दोषप्रकल्पनम् ॥ १८०॥ नूनं प्राग्जन्मकर्मैव सदसद्बुद्धिकारणम् । अन्यथा स्यात्कथं नाम वैमुख्यं मङ्गलावहे ॥ १८१ ॥ शान्ताः पवित्रा मङ्गल्या हृत्प्रसादविधायिनः । यथा ते वैदिक धर्मा नैव सन्ति तथेतरे ॥ १८२॥ नमो भगवते तुभ्यं विष्णवेऽतर्यशक्तये. पवित्रे वैदिके धर्मे श्रद्धां त्वामर्थयामहे ॥ १८३॥ www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140