Book Title: Shastratattvanirnay
Author(s): Nilkanth
Publisher: Scindia Oriental Institute
View full book text
________________
शास्त्रतत्त्वविनिर्णयः
[ अध्यायः ६ उ.
शालिवाहनशाकाब्दे रसषट्सप्तभू१७६६मित। काश्यां निष्ठामसौ प्राप्तः शास्त्रतत्त्वविनिर्णयः॥१८४॥ अन्यासामपि सर्वासां शङ्कानामुत्तरं त्विह । सूक्ष्मरूपेण संदिष्टं बुध्यतां बुद्धिमत्तरैः ॥१८५॥ यस्येश्वरे परा भक्तिः श्रद्धा शास्त्रे च निश्चला। तस्यैतेऽर्थाः प्रकाशन्ते इह प्रोक्ता महात्मनः ॥ १८६॥
इति षष्टस्याध्यायस्योत्तरार्धम् ।
इति नीलकण्ठस्य कृतौ शास्त्रतत्त्वविनिर्णये स्वमतदोषा
शङ्कानिराकरणं नाम षष्ठोऽध्यायः ॥ ६ ॥
१ अत उत्तरमन्तिमस्य पत्रस्य नष्टत्वाद् ग्रन्थभागो नास्ति आ पुस्तके.
२ अत उत्तरम् “ ॐ नमो नारायणाय सर्वात्मा श्रीसीताराम लिहिता तद्भक्त नाना अत्रि ॥छ ॥” इत्यधिकम् अ पुस्तके.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 135 136 137 138 139 140