Book Title: Shastratattvanirnay
Author(s): Nilkanth
Publisher: Scindia Oriental Institute

View full book text
Previous | Next

Page 126
________________ ७५ अध्यायः ६ उ.] शास्त्रतत्त्वविनिर्णयः ७५ कल्पितं खलु जीवत्वं तत्त्वज्ञानेन नश्यति । ततश्वोपाधिनाशेन स्वस्वरूपेऽवतिष्ठते ॥७८ ॥ एतेनेश्वरसारूप्यं जीवानां मुक्तिरस्ति चेत् । भवेद् वृद्धिर्विकारश्वेश्वरस्येत्यपि खण्डितम् ॥ ७९ ॥ अनाद्यविद्यया युक्तो जीवो भ्रमति संसृतौ। अविद्योपाधिनाशे तु स्वरूपमवशिष्यते ॥ ८ ॥ यच्चोक्तं ज्ञानिनः पुंसोऽहङ्कतिर्जायते ध्रुवम् । वचस्तदप्यहं मन्ये नभःपङ्कजवाक्यवत् ॥८१ ॥ गतदेहाद्यभिमतेः केवलं ब्रह्म पश्यतः । ज्ञानिनोऽहङ्कतिरिति वचः स्यात्कथमर्थवत् ॥ ८२ ॥ गतदेहाभिमतियः स ज्ञानीति कथ्यते । अहन्ता यस्य नक्षीणा ज्ञानित्वं तस्य वा कथम्॥ ८३ ॥ अत एवोच्यते लोके ज्ञानी परमदुर्लभः । तडीशकरुणालभ्यमतः सेव्यः सदा हरिः ॥ ८४ ॥ त्यक्तान्यभानः सर्वत्र हरिमेकं यदेक्षते । तदा तं ज्ञानिनं प्राहुः का तत्राहङ्कतेः कथा ॥ ८५ ॥ १ अत आरभ्य त्रयाणां श्लोकार्धानां स्थाने 'ये तु ज्ञानवदाभासास्तेषां स्यात्तादृशी स्थितिः । ' इत्येक एव श्लोकार्थः प्रागासीत् आ पुस्तके यः पश्चादिदानीन्तनपाठन निरस्तो दृश्यते. २ आ इ पुस्तकयोः '० लभ्यं तदुपास्यः सदा हरिः' इति पाठः प्राग्लिखितः पश्चादुपरितनपाठेन निरस्तश्च दृश्यते. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140