Book Title: Shastratattvanirnay
Author(s): Nilkanth
Publisher: Scindia Oriental Institute
View full book text
________________
७७
अध्यायः ६ उ.] शास्त्रतत्त्वविनिर्णयः
अभ्रान्तं हि परं ब्रह्म तदृष्टयैते मृषा ततः। अस्माकं दुष्टता मिथ्या विशेषोऽरमन्मते त्वियान् ॥ ९६ ॥ विरुद्धश्चिन्मयो ह्यात्मा देहादिजडसंघतः । तयोः परस्पराध्यासे मिथ्यात्वमुचितं भ्रमे ॥ ९७ ॥ भ्रमजन्यस्य बन्धस्य मिथ्यात्वमपि निश्चितम्। भ्रान्तदृष्टया त्वसौ सत्योऽभ्रान्तदृष्टया मृषैव सः॥ ९८ ॥ स्वप्नीयदुःखं चौर्यं च तद्दण्डादिकमेव च । सत्यं स्वप्नगदृष्टयैव जाग्रदृष्टया मृषैव हि ॥ ९९ ॥ जीवत्वं जीवदोषाश्च ब्रह्मदृष्टया मृषैव हि । नित्यबुद्धतया तच वे महिम्न्येव तिष्ठति ॥१०॥ चोरोत्पादकता सत्या विभौ क्लुप्ता भवन्मते । अस्माकं चोरता मिथ्या विशेषोऽस्मन्मते त्वियान् ॥१.१॥ दुष्टोत्पादकता सत्या विभौ क्लप्ता भवन्मते । अस्माकं दुष्टता मिथ्या विशेषोऽस्मन्मते त्वियान॥१.२॥ जीवत्वं जीवदोषाश्च भ्रान्तदृष्टयैव केवलम् । ब्रह्मदृष्टया न सन्त्येव तदोषै व लिप्यते ॥१३॥ ननु दुष्टान्नरानीशः सृजतीति न नो मतम् । नृणामेवेश्वरः कर्ता दोषा जीवकृता मताः ॥१०४॥ अत्रोच्यते-- भूतभव्यभवज्ञाता परमात्मा यतो मतः । ज्ञातवानेव जीवानां भविष्यदोषशालिताम् ॥१०५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140